SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ... पृष्टः । उपविष्टः । भ्रष्टाः । स्रष्टा । देवेट् । धानाभृट् । 'वश्च'आदिसाहचर्यात् धातोरेव छ-शोर्ग्रहणम् तेन इह न भवति-निशा-निग्भ्याम् । . भ्रस्ज सृज मृज यज राज भ्राज व्रश्च इति भ्रस्जादि । बहुवचनं यङः श्लुचि अपि भावार्थम्-बरीभृट् इत्यादि । ६१ ।। संयोगस्य आदिस्-कोः लुक् । ६२ । धुडादौ प्रत्यये परे पदान्ते च यः संयोगः तस्य आदौ सकारस्य ककारस्य च लोपो भवति । लग्नः । लग्नवान् । तष्टा । काष्ठतट । धुट-पदान्ते इति किम् ? काष्ठतक्षौ । 'प्रत्यये' इति अधिकारात् इह न भवति-शक्थोता । काक्यर्थम् , वास्यर्धम् इति बहिरङ्गस्य यत्रः असिद्धत्वात् अनेन उत्तरेण च लुग् न भवति ।। ६२ ॥ पदस्य । ६३ । संयोगान्तस्य पदस्य अन्तलोपो भवति । श्रीमान् । पदग्रहणं धुटः निवृत्त्यर्थम्-स्यन्त्वा ॥ ६३ ॥ रात् सः। ६४।। रेफात् परस्य सकारस्य लोपो भवति । चिकीाम् । “पदस्य" [ ना० द्विती० पादः सू० ६३ ] इति सिद्धे नियमार्थ वचनम् । “धुवच अन्यतः" [१० सन्धिः सू० १५] इति निर्देशात् 'रात् सः एव' इति नियमः तेन इह न भवति-ऊम् ॥ ६४ ॥ तिब-आदेः । ६५ । तिबाद्यन्तस्य संयोगान्तस्य पदस्य अन्तलोपो भवति । अजागर् भवान् ।अवावक् ॥ ६५ ॥ नाम्नः नः अन्अनः। ६६ । 'अहन्'वर्जितस्य नाम्नः पदस्य अन्तनकारस्य लोपो भवति । राजा । राजभ्याम् । नाम्नः इति किम् ? अपचन् । अन्अह्नः इति किम् ? अहः । पदस्य इति किम् ? राजानौ ॥ ६६ ॥ १ पृ० ४७ टिप्पण २ । २ 'काष्ठशकस्थाता' इति काशिकायाम् ।८।२।२९। ३ -क्यर्थः, वा-पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy