SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । वेः डौ । ३० । 'घि 'संज्ञकात् इकारात् उकाराच्च परो ङि: डौ भवति । नौ । साधौ । बुद्धौ । धेनौ ॥ ३० ॥ 1 टः अस्त्रिया ना । ३१ । अस्त्रीलिङ्गात् 'घि'संज्ञकात् इकारात् उकाराच्च परस्य टावचनस्य 'ना' आदेशो भवति । मुनिना । साधुना । अस्त्रिया इति किम् ? बुद्धया । धेन्वा । 'पुंसः' इति न कृतम् 'अमुना कुलेन' इति नपुंसके 'ना' भावार्थम् । नमि हि गुवर्णोऽसन् भवति । घे इति किम् ? सख्या । पत्या ॥ ३१ ॥ ङिति अदिति एङ् । ३२ । अदकारानुबन्धे ङिति स्यादौ परे 'घि'संज्ञकस्य इकारस्य उकारस्य च यथासंख्यम् एङ् भवति । 1 मुनये । मुनेः । मुनेः । साधवे । सोधोः । साँधोः । बुद्धये । धेनवे | अदिति किम् ? बुद्ध्यै । बुद्ध्याः । स्यादौ इति किम् ? पट्वी ॥ ३२ ॥ नपः जस्-शसोः शिः । ३३ । नपुंसकस्य संबन्धिनोः जस्-शसोः स्थाने शिः भवति । वनानि तिष्ठन्ति । वनानि पश्य । शकारः सर्वादेशार्थः ॥ ३३ ॥ औतः गीः । ३४ । नपुंसकस्य संबन्धिनः औकारस्य गी इति आदेशो भवति । वने तिष्ठतः । वने पश्य । पयसी ॥ ३४ ॥ आपः । ३५ । आबन्तस्य संबन्धिनः औकारस्य गी इति आदेशो भवति । शाले तिष्ठतः । शाले पश्य । 'आ+आप-आप्' इति आकारप्रश्लेषात् इह न भवति - प्रियशाली पुरुषौ ॥ ३५ ॥ १. पञ्चम्यन्तम् । २. षष्ठयन्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy