SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सन्धिः रो रे लुक् पूर्वस्य च अणो दीर्घः । १ । रेफस्य रेफे परे लुग् भवति, पूर्वस्य च अणो दीर्घः । अजग्र्धाः । हे माता रमते ॥ १॥ ढः तड्ढे । २। ढकारस्य तन्निमित्ते ढकारे परे लुग् भवति । पूर्वस्य च अणो दीर्घः । लीढम् । लूढम् । अण इति किम् ? आतृढम् । तड्ढे इति किम् ? गुडलिड् ढौकते ॥ २ ॥ सहि-वहेः ओच्च अवर्णस्य । ३। सहे: वहेश्च ढकारस्य तड्ढे परे लुग् भवति । पूर्वस्य च अवर्णस्य ओकारः-. सोढा । वोढा । अवोढाम् । अवर्णस्येनि किम् ? ऊढः ॥ ३ ॥ व्यञ्जनात् य-पश्चमस्य सरूपे वा । ४। व्यञ्जनात् परस्य यञः पञ्चमस्य च सरूपे परे लुग् वा भवति । आदित्यः, आदित्यः । क्रुश्चो ङौ क्रुङ्डौ, कुङ्ङ्डौ । व्यञ्जनाद् इति किम् ? अन्नम् । सरूप इति किम् ? पित्र्यम् । केचित् “यञ्-पञ्चमस्य यञ्-पञ्चमे असरूपेऽपि लुचम् इच्छन्ति" [ ] अभ्यते, अभ्यते ॥ ४ ॥ धुटः धुटि स्वे वा । ५। व्यञ्जनात् परस्य धुटः धुटि परे स्वे लुग् भवति वा । भिन्तः, भिन्त्तः। धुट इति किम् ? शार्ङ्गम् । धुटि इति किम् ? सक्थ्ना । स्व इति किम् ? तर्ता । व्यञ्जनाद् इति किम् ? बोद्धा । 'वा' ग्रहणम् उत्तरत्र 'वा' अधिकारनिवृत्यर्थम् ॥ ५ ॥ उदः स्था-स्तम्भः।६। उदः परस्य स्था-स्तम्भोर्धात्वोरवयवस्य धुटः धुटि परे लुग् भवति । उत्थाता । उत्तम्भिता । उदः परस्य इति किम् ? उदस्थात् । धुटि इति किम् ? उत्तिष्ठति । स्कन्देः 'उत्कन्दको रोगः' इति पृषोदरादिः ॥ ६ ॥ १. किम् ? स अन्नम् पा० पू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy