SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । शिटि हे च अनुस्वारः। ११ । मकार-नकाराणाम् अपदान्ते वर्तमानानां शिटि हे च परे अनुस्वारो भवति । पुंसि । सुदिशि कुलानि । धनूंषि । गुडलिंहि कुलानि । शिटि हे च-इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् शान्तः ॥ ११ ॥ ममो व्यञ्जने तौ । १२। ममो व्यञ्जने परे तौ निमित्तस्वः अनुनासिकः अनुस्वारश्च पर्यायेण भवतः । चक्रम्यते, चंक्रम्यते । यंयम्यते, येँय्यम्यते । निमित्तस्व इति किम् ? रैम्यते । अत्र अनुस्वार एव ॥ १२ ॥ ___मः पदान्ते । १३ । मकारस्य पदान्ते वर्तमानस्य व्यञ्जने परे तो निमित्तस्वः अनुनासिकः अनुस्वारश्च पर्यायेण भवतः । त्वङ् करोषि, त्वं करोषि । सँय्यन्ता, संयन्ता । पदान्त इति किम् ? गम्यते । निमित्तस्व इति किम् ? त्वं शान्तः ॥ १३ ॥ हे म-न-य-ल-वपरे । १४ । मकारस्य पदान्ते वर्तमानस्य म-न-य-ल-वपरे हकारे परे प्रत्यासत्तेर्म-न-य-ल-वानां स्वः अनुनासिकः अनुस्वारश्च पर्यायेण भवति । कि मलयति, किं मलयति । किन हुते, किं हृते । कि य् ह्यः, किं ह्यः । किल् ह्लादयति, किं ह्रादयति । कि व् ह्वयते, किं ह्वयते ॥ १४ ॥ सम्राट् । १५ । समः राजतौ किबन्ते परे अनुस्वाराभावो निपात्यते । सम्राट्, सम्राजौ ॥ १५ ॥ हस्वाद् ङ-ण-नाः स्वरे द्विः। १६ । हस्वात् परे पदान्ते वर्तमाना ङ-ण-नाः स्वरे परे विर्भवन्ति । १ सुदिशति इति सुदिक तस्य प्रथमा-द्वितीयाबहुवचनम् । २. अत्र निमित्तभूतर'कारस्य न कोऽपि स्वः अनुनासिकः । । ३. अत्रापि निमित्तभूत'श'कारस्य न कोऽपि स्त्रः अनुनासिकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy