SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ तद्धिते एकादशः पादः [ ४१७ निरुक्त व्याकरण निवाप वास्तुविद्या अङ्गविद्या क्षत्रविद्या त्रिविद्या विद्या उत्पात उत्पाद संवत्सर मुहूर्त निमित्त उपनिषद् इति 'शिक्षा'आदिः ॥ ६२ ॥ 'कल्प'-'पद'-'लक्षण'अन्तेभ्यः क्रतु-आख्यान-आख्यायिकात् । ६३ । 'कल्प-'पद'-'लक्षण'अन्तेभ्यः क्रतु-आख्यान-आख्यायिकावाचिभ्यश्च तद् वेत्ति अधीते वा इत्यर्थे इकण् प्रत्ययो भवति । पौर्वकल्पिकः । पौर्वपदिकः । गौलक्षणिकः । क्रतुः-आग्निष्टोमिकः । आख्यान-यावक्रीतिकः । आख्यायिका-वासवदत्तिकः ॥ ६३ ।। __ अकल्पात् सूत्रात् । ६४। 'कल्प'वर्षात् परात् 'सूत्र'शब्दात् तद् वेत्ति अधीते वा इत्यर्थे इकण् प्रत्ययो भवति। सांग्रहसूत्रिकः । अकल्पात् इति किम् ? सौत्रः । काल्पसौत्रः ॥ ६४ ॥ अधर्म-क्षत्र-संसर्ग-अङ्ग-त्रेः विद्यायाः । ६५ । 'धर्म'आदिवर्जात् परः यः ‘विद्या'शब्दः तदन्तात् वेत्ति अधीते वा इत्यर्थे इकण् प्रत्ययो भवति । __वायसविधिकः । अधर्म'आदेः इति किम् ? वैद्यः । धार्मविद्यः । क्षात्रविद्यः । सांसर्गविद्यः। आङ्गविद्यः । विद्यः-त्र्यवयवा विद्या त्रिविद्या अतः कर्मधारयात् प्रत्ययश्रुतिः । तिनः विद्याः वेत्ति अधीते वा इति द्विगौ श्लुक् भवति-त्रिविद्यः ॥ ६५ ॥ 'स''सर्व'आदेः लुक् । ६६। .. 'स'शब्दआदेः 'सर्व'शब्दआदेश्च वेत्ति अधीते वा इत्यर्थे विहितस्य श्लुक भवति । सवार्तिकः । सर्ववेदः ॥ ६६ ॥ संख्या कात् सूत्रे । ६७ । संख्यायाः परः यः 'क'प्रत्ययः तदन्तात् सूत्रे वर्तमानात् वेत्ति अधीते वा इत्यर्थे विहितस्य प्रत्ययस्य लुक् भवति । अष्टकाः पाणिनीयाः। द्वादशकाः मलयगिरीयाः। ० 'कात्' इति किम् ? चातुष्टयाः ॥ ६७ ॥ प्रोक्तात् । ६८। 'प्रोक्त'प्रत्ययान्तात् परस्य वेत्ति अधीते वा इत्यर्थे विहितस्य प्रत्ययस्य श्लुग् भवति। .. गोतमेन प्रोक्तम् गौतमम् तत् वेत्ति अधीते वा गौतमाः । पाणिनीयाः । आर्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy