SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सन्धिः गो अग्रम् , गोऽग्रम् , गवाग्रम् । एङः इति किम् ? चित्रग्वग्रम् । ' हे चित्रगो अग्रम्' इति लोक्षणिकत्वान्न भवति । गोः ओद्वचनं प्रकृतिभावार्थम् ॥ २३ ॥ अवः अनक्षे स्वरे । २४ । गोशब्दस्य संबन्धिनः एङः पदान्ते वर्तमानस्य अक्षशब्दस्थवर्जिते स्वरे परे अव आदेशो वा भवति । गवेश्वरः गवीश्वरः । पदान्त इति किम् ? गवि । अनक्ष इति किम् ? गोऽक्षम् , गोअक्षम् ॥ २४ ॥ इन्द्रे । २५। गोशब्दस्य संबन्धिनः एङः पदान्ते वर्तमानस्य इन्द्रशब्दस्थे स्वरे परे अवै आदेशो भवति । गवेन्द्रः । गवेन्द्रदत्तः । नित्यार्थं वचनम् ॥ २५ ॥ वातायनेऽक्षे । २६ । गोशब्दस्य संबन्धिनः एङः पदान्ते वर्तमानस्य अक्षशब्दस्थे स्वरे परे वातायने वाच्ये अव आदेशो भवति । गवाक्षः वातायनम् । वातायन इति किम् ? गोऽक्षम् , गोअक्षम् ॥ २६ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तवृत्तौ तृतीयः सन्धिः समाप्तः ।। चतुर्थः सन्धिः प्लुतः असन्धिः अनितौ । १ । ‘पदान्ते' इति वर्तते । ‘इति 'शब्दस्थवर्जिते स्वरे परे पदान्ते वर्तमानः प्लुतः असन्धिर्भवति । देवदत्त ३ इदमानय । अनितौ इति किम् ? सुश्लोकेति ॥ १ ॥ ए द्विवचनम् । २। १. अत्र 'चित्रगु'इति प्रकृतेः संबोधने गुणविधायकसूत्ररूपलक्षणेन ओत्वं लाक्षणिकम् न प्रकृतिजम् इति तात्पर्यम् । २. अव इत्यादेशो पा० । ३. तृतीयसन्धिस्थ-अन्तिमसूत्रात् 'पदान्ते' इति अनुवर्तनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy