SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । पुष्ये जातः पौषः । तैषः । ऋतुः-]ष्मः । शैशिरः । 'सन्ध्या'आदि-सान्ध्यः । सान्धिवेलः । सन्ध्या सन्धिवेला अमावास्या त्रयोदशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् इति 'सन्ध्या 'आदिः ॥ ८४ ॥ ___ संवत्सरात् पर्व-फले । ८५ । 'संवत्सर'शब्दात् कालवाचिनः 'भव'आदौ फले पर्वणि च अर्थे अण् प्रत्ययो भवति । सांवत्सरम् पर्व फलं वा ॥ ८५ ॥ प्रावृषः एण्यः । ८६ । 'प्रावृष्'शब्दात् कालवाचिनः 'भव'आदौ अर्थे 'एण्य'प्रत्ययो भवति । प्रावृषेण्यः ॥ ८६ ॥ चिर-परुत्-परारेः स्नः । ८७ । एभ्यः कालवाचिभ्यः ‘भव'आदौ अर्थे 'त्न'प्रत्ययो भवति । चिरत्नम् । परुल्नम् । परारित्नम् ।। ८७ ॥ अन्त-अवस-अधसः अमः । ८८ । एभ्यः ‘भव'आदौ अर्थे 'अम'प्रत्ययो भवति । अन्तमः । अवमः । अधमः । 'अकार'आदित्वम् अवस्-अधसोः अन्त्यस्वरादिलुगर्थम् ।। ८८ ॥ द्वीपात् अनुसमुद्रात् ण्यः । ८९ । समुद्रस्य समीपः यः द्वीपः तद्वाचिनः 'द्वीप'शब्दात् 'भव'आदौ अर्थे ‘ण्य' प्रत्ययो भवति । कच्छादियण-वुञोः अपवादः । द्वैप्यः । अनुसमुद्रात् इति किम् ? अनुनदिवाचिनः द्वैपम् द्वैपकम् अस्य हसितम् ॥ ८९ ॥ पश्चात्-आदि-अन्त-अग्रात् इमः ॥ ९० ॥ एभ्यः 'भव'आदौ अर्थे 'इम'प्रत्ययो भवति । पश्चिमम् । आदिमम् । अन्तिमम् । अग्रिमम् ॥ १० ॥ १. 'म'प्रत्ययेनैव सिद्धे 'अम'इति 'अकार'आदित्वम्-इति आशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy