SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अवर्णस्य इवर्णादौ एत्-ओत्-अर्-अल् । ८ । अवर्णस्य इवर्णादौ स्वरे परे परेण स्वरेण सहितस्य यथासंख्यम् ए ओ अर् अल् इत्यादेशा भवन्ति । तवेयम् । मालेयम् । गन्धोदकम् । मालोदकम् । परमषिः । महर्षिः । तवल्कारः । सल्कारेण । त्रिमात्रयोरपि स्थानिनोः एदोतौ द्विमात्रावेव भवतः सूत्रे तथानिर्देशात् ॥८॥ एच्-ऊचोः ऐत् औत् । ९। अवर्णस्य एचि ऊचि च परे परेण स्वरेण सहितस्य प्रत्यासत्या ऐ औ आदेशौ भवतः । तवैषा । खट्टवैषा । तवैन्द्री । खट्दैन्द्री। तबौदनः । खट्वौदनः । तवौपगवः । खट्वौपगवः । ऊचि-धौतः । धौतवान् ॥ ९॥ प्रस्य ऊह-ऊढ-ऊढि-एष-एष्येषु । १० । प्रशब्दस्य संबन्धिनः अवर्णस्य ऊह-आदिषु परेषु परेण स्वरेण सहितस्य आसत्त्या ऐ औ आदेशौ भवतः । प्रौहः । प्रौढः । प्रौढिः । श्रेषः । प्रेष्यः । प्रस्य इति किम् ? अपोढः । ऊहादिषु इति किम् ? प्रेतः । 'एकः प्रेष्यः' इति 'ईषेय॑णि ईष्यरूपम् ॥ १० ॥ स्वैर-स्वैरी-अक्षौहिण्यः।११। एते अवर्णस्य परेण स्वरेण सहितस्य ऐ औ आदेशेन निपात्यन्ते । स्वस्य ईरः स्वैरः, स्वयम् ईर्ते इति स्वैरः अच् । स्वयम् ईरितुं शीलमस्य स्वैरी । अक्षाणाम् ऊहिनी अक्षौहिणी ॥ ११ ॥ ओम्-आङि परः। १२ । अवर्णस्य ओमि आङादेशे च परे परेग स्वरेण सहितस्य परः स्वर आदेशो भवति । तवोङ्कारः । .... [' आङादेशे] - आ इहि-एहि उप एहि-उपेहि । शकन्धुः । कर्कन्धुः इति पृषोदरादिः ॥ १२ ॥ १. 'ईष उञ्छे' इत्येतस्य धातोः 'ईष्य'इति साधिते प्र+ ईध्य = प्रेष्य इति सिद्धम् । २. एतच्चिह्वान्तर्गतं सर्व संपादकीयम् । ३. शकानाम् अन्धुः-शक + अन्धुः । अत्र शकशब्दस्य अन्त्यस्य अकारस्य लापः । शकनामकजातीयमानवानाम् - अन्धुः कूपः इत्यर्थः । एवम् अन्यत्रापि आदिमशब्दस्य अन्त्यस्वरलोपो ज्ञेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy