SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तद्धिते नवमः पादः ‘सुस्नात’आदिभ्यः ‘पृच्छति' इत्यस्मिन् अर्थे इकण् प्रत्ययो भवति । सुस्नातं पृच्छति सौस्नातिकः । सौखरात्रिकः । 'सुस्नात' आदयः प्रयोगगम्याः ॥ ४१ ॥ 'प्रभूत' आदीन् ब्रूते । ४२ । 'प्रभूत' आदिभ्यः द्वितीयान्तेभ्यः 'ब्रूते' इत्यर्थे इक प्रत्ययो भवति । प्रभूतं ब्रूते प्राभूतिकः । पार्याप्तिकः । 'प्रभूत' आदयः प्रयोगगम्याः || ४२॥ माशब्दम् इत्यादिभ्यः । ४३ । एभ्यः 'ब्रूते' इत्यर्थे इण प्रत्ययो भवति । मा शब्दम् इति ब्रूते माशब्दिकः - 'इति' शब्द: वाक्यपरामर्शे - मा शब्दम् कार्षीः इति ब्रूते | कार्यशब्दम् इति ब्रूते कार्यशब्दिकः । ' माशब्द' इत्यादयः प्रयोगगम्याः ॥ ४३ ॥ शाब्दिक लालाटिक- दार्दरिक कौकुटिकाः । ४४ । [ ३६७ एते 'इ' अन्ता निपात्यन्ते । शब्दं करोति शाब्दिकः वैयाकरणः स हि ज्ञातवान् अविनष्टं शब्दम् उच्चारयति । देर्दरं वादित्रविशेषम् करोति दार्दरिकः । ललाटम् एव स्वामिनः दूरस्थितं पश्यति न स्वामिकार्ये उपतिष्ठते स लालाटिकः । तथा 'कुक्कुटी' शब्देन कुक्कुटपातः लक्ष्यते, तेनाऽपि देशस्य अल्पता तथा गच्छति कौक्कुटिकः - “युगमात्रार्पितदृष्टिसंयुतः भिक्षुः उच्यते” [ यद्वा 'कुकुटी' इति मिथ्या शौचक्रिया भण्यते ताम् आचरन् कौक्कुटिकः दाम्भिकः ॥ ४४|| ] ३|२|४७। शा० अ० । १. ' दर्दरो घटः वादित्रं च शब्द- दर्दरं करोति - ३ | ४ | ३१। चान्द्रे | शाब्दिक - दार्दरिक - ६।४।४५ | मे | शब्द-दर्दुरं करोति - ४१४ | ३४ | काशिका तथा ३।३।१५६। जैनेन्द्रे । “दादुरिकः कुम्भकारः” काशिका तथा जैनेन्द्रे । “दर्दुरो घटः वादित्रं च तत् कुर्वन् दारिकः । घटवादिनं कुर्वन् एवम् उच्यते । ३।२।४७ |” शा० चि० । शाकटायने चि० वृत्तौ 'घट' स्थाने 'पट' इत्यपि मुद्रितम् । "दादरिकः वादित्रकृत् " - हैमे । 'भेर्या नादस्तु दद्रुरः" हैमकोशे ६ काण्डे श्लो० ४५/ Jain Education International "दर्दुरः भेक मेघयोः ॥ ११६३ । वाद्यभाण्डे (वाद्यभेदे) शलभेदे ददुरं ग्रामजालके । दर्दुरः अमा दर्दरः स्यात् ईषद्भ ( ईषद्भेदे ) गिरौ अनि ॥ ११६४ । हैम अनेकार्थ० निर्णय ० । इत्येवं दर्दर-दर्दुर-दद्रुराणां मध्ये कः पाठः शुद्धः ? इति विचारे वैयाकरणानां न ऐकमत्यम् । २ 'कुक्कुटी' शब्देन अपि कुक्कुटीपातः लक्ष्यते, देशस्य अल्पतया हि भिक्षुः अविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौकुटिकः इति" - काशिका । "हृदयावयवो वा कुक्कुटी तां पश्यति । कौकुटिकः भिक्षुः " - ६।४।४५। हैमे । " स्याद् दाम्भिकः कौकुटिकः यश्च अदूरेरितेक्षणः " - अमर० ३ कां० नानार्थ० श्लो० १७/ एवमेव हैम अनेकार्थ० श्लो० १३८१ । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy