SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ तद्धिते अष्टमः पादः यः । १ । अधिकारः अयम् — अपवादविषयं परिहृत्य 'यः' इति अधिकृतं वेदितव्यम् ॥ १ ॥ तत्र साधौ । २ । 'तत्र' इति सप्तम्यन्तात् साधौ अर्थे 'य' प्रत्ययो भवति । सामनि साधुः सामन्यः । कर्मण्यः । शरण्यः । सभ्यः । साधुः योग्य: प्रवीणः उपकारको वा ॥ २ ॥ भक्तात् णः । ३। 'भक्त' शब्दात् तत्र साधौ अर्थे 'ण' प्रत्ययो भवति । भाक्तः शालिः ॥ ३ ॥ Jain Education International परिषदः ण्यश्च । ४। 'परिषत् ' शब्दात् तत्र साधौ ण्यः भवति णश्च । परिषदि साधुः पारिषद्यः पारिषदः ॥ ४ ॥ सर्वजनात् ईनश्च । ५ । सर्वजनात् तत्र साधौ ईनः ण्यश्व भवतः । सार्वजन्यः, सार्वजनीनः ॥ ५ ॥ 'प्रतिजन ' आदेः | ६ | एभ्यः तत्र साधौ अर्थे 'ईन' प्रत्ययो भवति । प्रतिजनीनः । अनुजनीनः । प्रतिजन अनुजन इत्यादि ॥ ६ ॥ पथि अतिथि- वसति-स्वपतेः एयणू । ७। एभ्यः तत्र साधौ अर्थे यण् प्रत्ययो भवति । पाथेयम् | आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ ७ ॥ १. " साधुः इह प्रवीणः योग्यो वा गृह्यते नोपकारकः, तत्र हि परत्वात् 'तस्मै हितम्' इत्यनेन भवितव्यम्" - काशिका ४|४|९८ । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy