SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । केशात् वा वः। ३४ । केशात् मत्वर्थे 'व' प्रत्ययो वा भवति । केशवः, केशी, केशवान् ॥ ३४ ॥ 'मणि'आदेः। ३५ । एभ्यः मत्वर्थे 'व' प्रत्ययो भवति । मणिवः, मणिमान् । 'सिध्म'आदिपाठात् मणिलः । 'मणि'आदयः प्रयोगगम्याः ॥ ३५॥ मरुत्-पर्वणः तः । ३६ । 'मरुत्'-'पर्व'शब्दाभ्यां मत्वर्थे 'त' प्रत्ययो भवति । मरुत्तः, मरुत्वान् । पर्वतः, पर्ववान् ॥ ३६ ॥ कं-शंभ्याम् ति-युस्-तु-यस्-त-व-भाः। ३७ । 'क'-'शं'शब्दाभ्यां मत्वर्थे एते प्रत्यया भवन्ति । कन्तिः । शन्तिः । कंयुः । शंयुः । कंतुः । शन्तुः । कंयः । शंयः । कंतः । शन्तः । कंवः । शंवः । कंभः । शंभः । युस्-यसोः सकारः इत् पदत्वार्थः ।। ३७ ॥ वलि-तुण्डि -वटे भः । ३८ । एभ्यः मत्वर्थे 'भ'प्रत्ययो भवति । वलिभः । अङ्गादित्वात् नः-बलिनः । तुण्डिभः । तुण्डिलः । वटिभः । प्रवृद्धा नाभिः तुण्डिः ॥ ३८ ॥ ऊर्जा-अहम्-शुभमः युस् । ३९ । एभ्यः मत्वर्थे 'युस्' प्रत्ययो भवति । ऊर्णायुः । अहंयुः । शुभंयुः । सकारः इत् पदार्थम् ॥ ३९ ॥ स्वाङ्गात् हीनात् अः। ४०। 'हीन'उपाधिकात् स्वाङ्गवाचिनः मत्वर्थे 'अ' प्रत्ययो भवति । छिन्नः कर्णः अस्य अस्ति कर्णः । नासिकः । हीनात् इति किम् ? कर्णवान् । नासिकावान् अन्यः ॥ ४० ॥ __ 'अभ्र'आदिभ्यः । ४१॥ १. "प्रवद्धनाभिः तुण्डिः"-३।३।१४७ । शा० चिन्ता० । 'तुन्दिः' इति वृद्धा नाभिः' उच्यते -५।२।१३९ । काशिका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy