SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ तद्धिते सप्तमः पादः [ ३३९ अयानयं नेयः।७। 'अयानय'शब्दात् निर्देशात् एव द्वितीयान्तात् नेये अर्थे 'ईन' प्रत्ययो भवति । अयानयं नेयः । अयानयीनः शोरिः ॥ ७ ॥ सर्वान्नम् अत्ति । ८। 'सर्वान्न'शब्दात् द्वितीयान्तात् 'अत्ति' इत्यर्थे 'ईन' प्रत्ययो भवति । सर्वान्नम् अत्ति सर्वान्नीनः भिक्षुः नियमरहितः ॥ ८ ॥ परोवरीण-[परम्परीण]-पुत्रपौत्रीणाः । ९। एते 'ईन' प्रत्ययान्ता निपात्यन्ते । परान् च अवरान् च अनुभवति परोवरीणः । परान् च परतरान् च अनुभवति परम्परीणः । पुत्रान् च पौत्रान् च अनुभवति पुत्रपौत्रीणः ॥ ९ ॥ यथाकाम-अनुकाम-अत्यन्त-पार-अवार-अवारपारान् गामिनि । १० । एभ्यः द्वितीयान्तेभ्यः गामिनि अर्थे 'ईन' प्रत्ययो भवति । यथाकामं गामी यथाकामीनः । अनुकामीनः। अत्यन्तीनः । पारीणः । अवारीणः । पारावारीणः । अवारपारीणः ॥ १० ॥ __ अनुगु अलम् । ११ । 'अनुगु'शब्दात् अलंगामिनि अर्थे 'ईन' प्रत्ययो भवति । अनुगु अलं गामी अनुगवीन: गोपालकः ॥ ११ ॥ __ अध्वानम् य-ईनौ । १२ । 'अध्वन्' शब्दात् द्वितीयान्तात् अलंगामिनि अर्थे 'य'-'ईन' प्रत्ययौ भवतः । अध्वानम् अलंगामी अध्वन्यः । अध्वनीनः । ईने अनुवर्तमाने पुनः 'ईन' ग्रहणम् उत्तरत्र समुच्चयार्थम् ॥ १२ ॥ ___ अभ्यमित्रम् ईयश्च । १३ ।। अभ्यमित्र' शब्दात् द्वितीयान्तात् अलंगामिनि अर्थे 'ईय' प्रत्ययो भवति चकारात् याईनौ च । १ "अयः प्रदक्षिणं गममम् अनयः प्रसव्यम्" (अन् + अय = अनय) ३।३।५९ शा० अ० । “ शारः । अथवा अयः शुभं दैवम् अनयः अशुभं दैवम्-शुभदैवात् अपवर्तते अशुभं देवम् यस्मिन् कर्मणि तद अयानयं शान्तिकर्म ......तद् यो नेयः सः अयानयीनः ईश्वरःहैमे-७।१।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy