SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कृदन्ते षष्ठः पादः । ३२७ गतः । विना भूत्वा, विनाभूय, विनाभावं गतः । अद्विधाभूतः द्विधा भूत्वा, द्विधाभूय, द्विधाभावं गतः । एकधा भूत्वा, एकधाभूय, एकधाभावं गतः । ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यंभावं गतः । एवं मुखतः कृत्वा, मुखतःकृत्य, मुखतःकारं शेते इत्यादि। च्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुङ्क्ते ।। ५९ ॥ आप्यात् इच्छार्थे तुम्-सप्तम्यौ । ६०। आप्यभूतात् धातोः तुल्यकर्तृकात् इच्छार्थे धातौ उपपदे तुम्-सप्तम्यौ भवतः । ___ भोक्तुम् इच्छति, भुञ्जीय इति इच्छति । आप्यात् इति किम् ? इच्छन् करोति । इच्छार्थे इति किम् ? भोजकः याति ॥ ६०॥ __'घ्यण'आदिः अतिव'आदिः कृत् सिद्धः । ६१। 'तिव्'आदिवर्जितः ध्यण'आदिः प्रत्ययः कृत् सिद्धः वेदितव्यः । कृत्प्रदेशाः 'अतुम्-त्वा-अम् कृत्' कृत् प्रथमपाद १ सूत्र इत्येवम् आदयः ॥ ६१ ।। इति श्रीमलयगिरिविरचिते शब्दानुशासनवृत्तौ कृति षष्ठः पादः समाप्तः ।। ।। कृदन्तप्रकरणं समाप्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy