SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ कृदन्ते षष्ठः पादः निमूलात् कषः । ४८ । 'निमूल'शब्दात् कर्मणः परात् कषेः तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति । निमूलकाषं कषति ॥ ४८ ॥ समूलात् हनश्च । ४९ । समूलात् कर्मणः परात् हन्तेः कषेश्च तस्मिन् एव धातौ उपपदे णम् प्रत्ययो वा भवति । समूलघातं हन्ति-समूलं हन्ति इत्यर्थः । समूलकाष कषति ।। ४९ ॥ करणात् । ५०। करणवाचिनः परात् हन्तेः तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति । पाणिघातं हन्ति-पाणिना हन्ति इत्यर्थः । हिंसात् अपि परत्वात् अयमेव विधिः । अस्मिन् समासः नित्यः । स एव धातुः उपपदं भवति-असिघातं हन्ति शत्रून् ॥ ५० ॥ स्व-स्नेहनार्थात् पुष-पिषः । ५१ । 'स्व'अर्थात् 'स्नेहन'अर्थात् च यथासंख्यं पुषः पिषेश्च परः णम् प्रत्ययो वा भवति तस्मिन् एव धातौ उपपदे । स्वपोषं पुष्णाति । आत्मपोषं पुष्णाति । मातृपोषं पुष्णाति । रैपोषं पुष्णाति । उदपेष पिनष्टि । घृतपेषं पिनष्टि । क्षीरपेषं पिनष्टि ॥ ५१ ।। 'हस्त 'अर्थात् ग्रह-वर्ति-वृतः । ५२। 'हस्त'अर्थात् करणात् परेभ्यः 'ग्रह'आदिभ्यः तेषु एव धातुषु उपपदेषु णम् प्रत्ययो वा भवति । हस्तग्राहं गृह्णाति । हस्तवर्त वर्तते । एवम् करग्राहम् इत्यादि ।। ५२ ।। बन्धेः नाम्नि । ५३ । बन्ध इति प्रकृतिः नामविशेषणं च । बन्धेः नाम-संज्ञा-तद्विषयात् करणात् परात् बन्धेः तस्मिन् एव धातौ उपपदे णम् वा भवति । . अट्टालिकाबन्धं बद्धः । 'अट्टालिका'आदीनि बन्धनैनामधेयानि तैर्बन्धनैर्बद्धः। अन्ये प्रत्ययान्तोपाधेः मन्यन्ते प्रत्ययान्तं च नाम भवति, तेषां मते 'अट्टालिकाबन्धम्' इत्यादीनि बन्धननामानि ॥ ५३ ॥ १. अतः पूर्वम् 'हस्तवतं वर्तयति' इति ज्ञेयम् । २ विशेषप्रकारकबन्धननामधेयानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy