SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कृदन्ते पञ्चमः पादः एभ्यः अकर्तरि स्त्रियां क्यप् प्रत्ययो भवति । समज्या । निषद्या । निपत्या । निपद्या | मन्या । विद्या । इत्या । सुया । शय्या | मतिः । समितिः । आसुतिः इति बहुलाधिकारात् ॥ ८४ ॥ कृञः वा शश्च । ८५ । कृञः अकर्तरि स्त्रियां क्यप् शश्व प्रत्ययो भवति । क्रिया । कृत्या | पक्षे कृतिः ॥ ८५ ॥ क्तिः । ८६ । धातोः अकर्तरि स्त्रियां 'क्ति' प्रत्ययो भवति । सृष्टिः। दृष्टिः । कृतिः । वृत्ति: । स्त्रियाम् इति किम् ? सर्गः । चयः ॥ ८६ ॥ स्तु-सु-यज्- इषः करणे । ८७ । एभ्यः अकर्तरि करणे स्त्रियां 'क्ति' प्रत्ययो भवति । स्तुतिः । स्रुतिः । यजेः इष्टि: । इषेः अपि इष्टिः ॥ ८७ ॥ 'लभू' आदिभ्यः । ८८ । एभ्यः अकर्तरि स्त्रियां 'क्ति' प्रत्ययो भवति । [ ३१५ लब्धिः । निकुचितिः । अर्देः अर्तिः । षित्वात् अङ् अपि भवति - लम्भा ॥ ८८ ॥ 'संपद्' आदिभ्यः क्विप् च । ८९ । 'संपद्’आदिभ्यः अकर्तरि स्त्रियां क्विप् क्तिश्च प्रत्ययो भवति । संपत्, संपत्तिः । विपत्, विपत्तिः । आपत्, आपत्तिः । संवित्, संवित्तिः । 'संपत्' आदयः प्रयोगगम्याः || ८९ ॥ साति-ति-यूति - जूति - कीर्ति - अटाट्या मृगया इच्छा-याञ्श्चा- कृपाः । ९० । एते स्त्रियाम् अकर्तरि निपात्यन्ते । सातेः क्तौ इत्वाभावः सातिः । हन्तेः हिनोतेर्वा 'हे' भावः हेतिः । यौतेः जवतेश्व दीर्घत्वम् - यूतिः । जूतिः । कीर्तयतेः कीर्तिः । अटतेः यः द्वित्वम्-अटाट्या । मृगयतेः इच्छतेश्च शे शपि च यत्वाभावे मृगया । इच्छा । याचेः नः याञ्चा । कृपेः अङ् संप्रसारणं वा- कृपा ॥ ९० ॥ नञः अनिः शापे । ९१ । . नञः परात् धातोः शापे गम्यमाने अकर्तरि स्त्रियाम् अनिः प्रत्ययो भवति । अकरणिस्ते जाल्म ! भूयात् । अप्रयाणिस्ते जाल्म ! भूयात् । नञः इति किम् ? हतिस्ते जाल्म ! भूयात् । शापे इति किम् ? अकृतिः कटस्य ॥ ९१ ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति पञ्चमः पादः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy