SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कृदन्ते पञ्चमः पादः [३१३ जागर्या । जागरा ॥ ६९ ॥ परेः सृ-चरः । ७० । 'परि'पूर्वाभ्यां सृ-चरिभ्याम् अकर्तरि स्त्रियां 'य'प्रत्ययो भवति । परिसर्या । परिचर्या ।। ७० ॥ अधेश्च अनः अनिच्छायाम् इषः वा । ७१ । परेः अधेश्च परात् इषः अनिच्छार्थात् अकर्तरि स्त्रियाम् 'अन'प्रत्ययो वा भवति । पर्येषणा । अध्येषणा । परीष्टिः । अधीष्टिः ॥ ७१ ॥ णि-वेत्ति-आस-श्रन्थ-घट्ट-वन्देश्च । ७२ । ण्यन्तात् , 'वेत्ति'आदिभ्यः, अनिच्छार्थात् इषेश्च अकर्तरि स्त्रियाम् 'अन'प्रत्ययो भवति । कारणा । कामना । वेदना । आसना । श्रन्थना । घटना । वन्दना । एषणा । 'वेत्ति'इति 'तिप्'निर्देशात् अन्यविदि प्रतिषेधः ॥ ७२ ।। ग्ला-ज्या-हः निः। ७३ । एभ्यः अकर्तरि स्त्रियां निः प्रत्ययो भवति । ग्लानिः । ज्यानिः । हानिः ॥ ७३ ॥ प्रश्न-आख्याने वा इञ् । ७४। धातोः अकर्तरि स्त्रियाम् प्रश्ने आख्याने च गम्यमाने वा इञ् प्रत्ययो भवति । [प्रश्ने] कां कारिम् का कारिकाम् का क्रियाम् कां कृतिम् कां कृत्याम् अकार्षीः ? - [आख्याने सर्वां कोरिम् सर्वां कारिकाम् सर्वां क्रियाम् सर्वां कृतिम् सर्वां कृत्याम् अकार्षम् ॥७४॥ अर्ह-ऋण-पर्याय-उत्पत्तौ च बुञ् । ७५ । 'अर्ह'आदिषु प्रश्न-आख्यानयोश्च गम्यमानयोः धातोः अकर्तरि स्त्रियां वुञ् प्रत्ययो भवति । ___अर्हति भवान् इक्षुभक्षिकाम् । ऋणे-इक्षुभक्षिकां मे धारयसि । पर्याये-भवतः शायिका । उत्पत्तौ इक्षुभक्षिका मे उदपादि । ७५ ॥ १. एवम् “गणिम् , गणिकाम् , गणनाम् । पाचिम् पाचिकाम् पक्तिम् । पाठिम् , पाठिकाम् , पठितिम्'-(शाकटा-४१४१८६) उदाहरणानि ज्ञेयानि । २. "कां कारिकाम् अकार्षीः ? सर्वा कारिकाम् अकार्षम्" हैम-५।३।१२०) इति उदाहरणद्वयं यथासंख्य प्रश्ने आख्याने चात्र बोध्यम् । ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy