SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कृदन्ते चतुर्थः पादः [ ३०१ माङि अद्यतनी । ९७। माङि उपपदे धातोः अद्यतनी भवति । मा कार्षीत् ॥ ९७ ॥ ___ स्मेन ह्यस्तनी च । ९८ । स्मेन सह माङि उपपदे धातोः ह्यस्तनी अद्यतनी च भवति । मा स्म करोत् । मा स्म कार्षीत् ॥ ९८ ॥ भृश-आभीक्ष्ण्ये पश्चमी तस्मिन् तथार्थे । ९९ । ___ भृशे आभीक्षण्ये च अर्थे वर्तमानात् धातोः पञ्चमी भवति तस्मिन् धातौ यथाविधः अर्थः पञ्चम्यन्तस्य तथार्थे उपपदे । लुनीहि लुनीहि इत्येव अयं लुनाति, लुनीतः लुनन्ति । लुनासि, लुनीथः, लुनीथ । लुनामि, लुनीवः, लुनीमः । अलावीत् । लविष्यति । अघीष्व अधीष्व इत्येव अयम् अधीते, अधीयाते इत्यादि । तस्मिन् इति किम् ? लुनीहि लुनीहि इत्येव अयं छिनत्ति मा भूत् । तथार्थे इति किम् ? लुनीहि लुनीहि इत्येव लूयते चैत्रेण इति मा भूत् ॥ ९९ ॥ प्रचये वा सामान्यार्थे । १००। प्रचयः स्वतः साधनभेदेन वा भिद्यमानस्य धात्वर्थस्य अनेकस्य एकत्र समुच्चयः । सामान्यार्थे धातौ उपपदे प्रचये गम्यमाने धातोः पञ्चमी भवति । व्रीहीन वप लुनीहि पुनीहि इत्येव आयतते यत्यते वा पक्षे व्रीहीन वपति लुनाति पुनाति इत्येव यतते यत्यते वा । ग्रामम् अट वनम् अट गिरिम् अट इत्येव अटति घटते अट्यते वा पक्षे ग्रामम् अटति वनम् अटति गिरिम् अटति इत्यादि । सामान्यार्थे इति किम् ? निरुपपदः सर्वविशेषोपपदो वा प्रयोगो मा भूत् ॥ १० ॥ हिः एतयोः। १०१ । एतयोः अनन्तरसूत्रद्वयविहितयोः पञ्चम्योः स्थाने हिः आदेशो भवति । लुनीहि लुनीहि इत्येव अयं लुनाति इत्यादि ॥ १०१ ॥ तस्य वा । १०२। एतयोः पञ्चम्योः तकारस्य हिः आदेशो वा भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy