SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमः सन्धिः . अ आ इ ई उ ऊ । अग्रप्रदेशाः --- "अणः अमः". [ ना० तृती० पा० ८] इत्येवमादयः ॥ ८॥ एदादिः एच् ।९। बिन्दोः प्राग् एकारादिः एचसंज्ञो भवति । ए ऐ ओ औ। एचप्रदेशाः – “एच्-ऊचोः ऐत्-औत्" [१० सन्धिः ९] इत्येवमादयः ॥ ९ ॥ ए-ओ एङ् । १०। एकार-ओकारौ एङ्संज्ञौ भवतः । एप्रदेशाः – “ एङि एङ्" [तृ० सन्धिः २०] इत्येवमादयः ॥ १० ॥ अं-अः अनुस्वार-विसगौं । ११ । अकारौ उच्चारणार्थों । अं इति बिन्दुमात्रो वर्णः । अः इति उपरि-अधोभूतबिन्दुद्वयमात्रः । एतौ यथासंख्यम् अनुस्वार-विसर्गसंज्ञौ भवतः । अनुस्वार-विसर्गप्रदेशाः“शिटि हे च अनुस्वारः” [च० सन्धिः ११] “विसर्गः” [ पञ्च० सन्धिः ४२] इत्येवमादयः ॥ ११ ॥ कादिः व्यञ्जनम् । १२। ककारादिहकारपर्यन्तो वर्णो व्यञ्जनसंज्ञो भवति । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । य र ल व । श ष स ह । व्यञ्जनप्रदेशाः-"म-मो व्यञ्जने तौ” [च० सन्धिः १२] इत्येवमादयः ॥ १२ ॥ __मान्ताः पञ्च पञ्च वर्गः।१३। ककारादयो मकारपर्यवसाना वर्गाः पञ्च पञ्च भूत्वा वर्गसंज्ञा भवन्ति । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । वर्गप्रदेशाः-“ यो वर्यः [ च० सन्धिः २३ ] इत्येवमादयः ॥ १३ ॥ प्रथम-द्वितीयाः श-ष-साश्च अघोषाः । १४ । वर्गाणां प्रथम-द्वितीया वर्णाः श-ष-साश्च अघोषसंज्ञा भवन्ति । क ख । च छ। ट ठ । त थ । प फ। श ष स । अघोषप्रदेशाः-"अघोषे प्रथमः अशिटः [ पञ्च० सन्धिः ८ ] इत्येवमादयः ॥ १४ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy