SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ कृदन्ते द्वितीयः पादः [ २६९ प्रात् दा-ज्ञः । ३१ । कर्मणः पराभ्यां दा-ज्ञाभ्यां परः 'ड' प्रत्ययो भवति । सर्वप्रदः । पथिप्रज्ञः । प्रात् इति किम् ? गोसंदायः ॥ ३१ ॥ आतः अनुपसर्गात् अह्वा-वा-मः । ३२ । कर्मणः परात् अनुपसर्गात् ह्वा-वा-मावर्जितात् आकारान्तात् धातोः 'ड' प्रत्ययो भवति । अणः अपवादः । धनदः । तनुत्रम् । अह्वा-वा-मः इति किम् ? जिनह्वायः । तन्तुवायः । घान्यमायः ॥३२॥ गः टक । ३३ । कर्मणः परात् अनुपसर्गात् गायतेः टक् भवति । अणः अपवादः । वक्रगः । वक्रगी। अनुपसर्गात् इति किम् ? वक्रसंगायः ॥ ३३ ॥ अमनुष्ये हनः । ३४ । कर्मणः परात् हन्तेः अमनुष्ये कर्तरि टक् प्रत्ययो भवति । वातघ्नं आविकं क्षीरम् । पतिघ्नी रेखा । अमनुष्ये इति किम् ? आखुधातः शूद्रः । पापघातो यतिः । 'नरघातो हस्ती' इत्यादौ अनभिधानात् न भवति ॥ ३४ ॥ जाया-पतेः चिह्नवति । ३५ । जाया-पतिभ्यां कर्मभ्यां परात् हन्तेः चिह्नवति कर्तरि टक् भवति । चिह्न लक्षणम्शुभाऽशुभसूचकं शरीरस्थं मष-तिलकादि । जायानो ब्राह्मणः । पतिनी कन्या । मनुष्यार्थः आरम्भः ॥ ३५ ॥ हस्ति-बाहु-कपाटात् शक्तौ । ३६ । 'हस्ति'आदिभ्यः कर्मभ्यः परात् हन्तेः शक्तौ गम्यमानायां टक् प्रत्ययो भवति । । हस्तिन्नः पुरुषः-हस्तिनं हन्तुं शक्तः इत्यर्थः । एवम् बाहुन्नः । कपाटनः चौरः । हस्ति-बाहु-कपाटात् इति किम् ? चौरधातः मनुष्यः ॥ ३६ ॥ कुमार-शीर्षात् णिन् । ३७ । आभ्यां कर्मभ्यां परात् हन्तेः 'गिन्' प्रत्ययो भवति । कुमारघाती। शीर्षघाती । शिरःपर्यायः 'शीर्ष'शब्दः अकारान्तोऽपि अस्ति । तथा च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy