SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कृदन्ते प्रथमः पादः औं नमः सर्वज्ञाय । अतुम्-त्वा-अम् कृत् । १। तुम्-वा-अम्वर्जितः 'कृत्' प्रत्ययः कर्तरि वेदितव्यः । कारकः । पक्ता । अतुम्-त्वा-अम् इति किम् ? कर्तुं व्रजति | कृत्वा व्रजति । कारंकारं व्रजति । अनिर्दिष्टार्था एते प्रत्ययाः स्वस्वार्थे एव भावे वेदितव्याः ॥ १ ॥ जन्-आपत्-आप्लाः वा घ्यण । २। एभ्यः 'ध्यण' प्रत्ययः कर्तरि वा वेदितव्यः । जन्यः । आपात्यः । आप्लाव्यः । पक्षे भाव-कर्मणोः-जन्यं चैत्रेण इत्यादि ॥ २ ॥ भू-गः यः । । आभ्यां परः 'य'प्रत्ययः कर्तरि वा वेदितव्यः । भव्यः चैत्रः पक्षे भव्यं चैत्रेण । गेयः माणवकः गाथानाम् , गेया माणवकेन गाथा, गेयं माणवकेन ॥ ३ ॥ प्र-उपात वचि-स्थः अनीयः । ४। 'प्र'पूर्वात् वः 'उप'पूर्वाच्च तिष्ठतेः कर्तरि 'अनीय' प्रत्ययो वा वेदितव्यः । प्रवचनीयः गुरुः शासनस्य । उपस्थानीयः शिष्यः गुरोः । पक्षे भाव-कर्मणोः प्रवचनीयं गुरुणा इत्यादि ॥ ४ ॥ आरम्भे क्तः ।५। आरम्भः आदिकर्म, तत्र वर्तमानात् धातोः 'क्त'प्रत्ययः कर्तरि वा वेदितभ्यः । प्रकृतः कटं चैत्रः पक्षे प्रकृतः कटः चैत्रेण, प्रकृतं चैत्रेण ॥ ५ ॥ शीङ-स्था-आस्-वस-जन-रुह-भज-श्लिषः । ६ । एभ्यः परः 'क्त'प्रत्ययः कर्तरि वा वेदितव्यः । अतिशयितः गुरुं चैत्रः । उपस्थितः गुरुं चैत्रः । उपासितः गुरुं चैत्रः । अनूषितः गुरुं चैत्रः । अनुजातः माणवकः माणविकाम् । आरूढः वृक्षं चैत्रः । विभक्ताः स्वं विप्राः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy