SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आख्याते नवमः पादः [२४५ णो मृगरमणे । ५६। मृगरमणे वर्तमानस्य र ः उपान्त्यनकारस्य णौ परे लुग् भवति । रजयति मृगान् व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ।। १६ ।। घञि भाव-करणे । ५७ । भाव-करणार्थविहिते घनि परे रञ्जेः उपान्त्यनकारस्य लुग् भवति । रञ्जनम् , रज्यते अनेन इति वा रागः । भाव-करणे इति किम् ? आधारे रङ्गः॥५७॥ 'प्रश्रथ आदिः । ५८। 'प्रश्रथ आदिः कृतनलुक् निपात्यते । प्र-हिमपूर्वस्य श्रन्थेः घञ्-प्रश्रथः । हिमश्रथः । इन्धेः एधः । अवपूर्वस्य उन्देः अवोदः । मन्-उन । दशेः अनटि दशनम् । स्यन्देः घञि स्यदो जवः। निपातनात् अन्यत्र न भवति-तैलस्यन्दः ।। ५८ ॥ ऋतः मृजेः आर् वा स्वरे । ५९। मृजेः उपान्त्यस्य ऋकारस्य स्वरादौ प्रत्यये परे आर् वा भवति । परिमृजन्ति, परिमार्जन्ति । ऋतः इति किम् ? मार्जनम् । स्वरे इति किम् ? मृष्टः ॥ ५९॥ अतः आः । ६० । मृजेः उपान्त्यस्य अकारस्य आकारी भवति । मार्टि । अतः इति किम् ? मृष्टः ।। ६० ॥ णिति । ६१। धातोः उपान्त्यस्य अतः जिति णिति च प्रत्यये परे आकारो भवति । अपाचि । पाचयति । उपान्त्यस्य इति किम् ? पिपतिषकः ।। ६१ ॥ णपि अस्मदि वा वृद्धिश्च इकः । ६२ । धातोः उपान्त्यस्य अतः अस्मद्विषये णपि परे आकारो वा भवति वृद्भिश्च 'इक्'अन्तस्य वा । अहं पपच, अहं पपाच । अहं निनय, अहं निनाय ॥ ६२ ॥ विश्रमो घनि । ६३ ।। विपूर्वस्य श्रमेः उपान्त्यस्य अतः धनि परे वा आकारो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy