SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६६ ] आचार्यश्रीमलयगिरिविरचितं शम्दानुशासनम् । यि डिति शय । ७० । शीङः यकारे किति ङिति च प्रत्यये परे शय आदेशो भवति । शय्यते । शाशय्यते । किति इति किम् ? शेयम् । यङः श्लुचि न भवति। शेशीयते ॥ ७० ॥ उपसर्गात ऊहः हस्वः । ७१ । उपसर्गात् परस्य ऊहतेः 'यकार'आदौ किति ङिति च प्रत्यये परे आदेः हस्वो भवति । समुह्यते । उपसर्गात् इति किम् ? ऊह्यते । 'यि' इति किम् ? समूहितः । किति इति किम् ? समूह्यः ।। ७१ ॥ आशिषि इणः । ७२। उपसर्गात् परस्य इणः ‘यकार'आदौ आशिषि परे आदेः हस्वो भवति । उदियात् । उपसर्गात् इति किम् ? ईयात् ।। ७२ ॥ आ म-वि अतः । ७३ ।। धातोः विहिते मकारादौ वकारादौ च प्रत्यये परे अतः आकारो भवति । पचामि । पचावः ॥ ७३ ॥ मग आने । ७४ । धातोः विहिते आनप्रत्यये परे अतः मग् आगमो भवति । पचमानः । पक्ष्यमाणः । अतः इति किम् ? शयानः ॥ ७४ ॥ आसीनः । ७५ । आस्तेः परस्य आनस्य आदेः ईकारो निपात्यते । आसीनः । उदासीनः ॥ ७५ ॥ ऋतः रिः श-क्य-आशीर्ये । ७६ । ऋतः श-क्ये आशीर्ये च परे रिः आदेशो भवति । म्रियते । क्रियते। क्रियात् ॥ ७६ ॥ - ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते अष्टमः पादः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy