SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आख्याते अष्टमः पादः कर्त् । १ । कृतः कृतः णौ 'कीर्त' आदेशो भवति । कीर्तयति ॥ १ ॥ क्तौ अपात् चायेः चिः । २ । अपात् परस्य चायेः क्तौ परे 'चिः' आदेशो भवति । अपचितिः ॥ २ ॥ क्तयोश्च ह्लादेः हृद् । ३ । Jain Education International क्त-क्तवत्वोः क्तौ च परे ह्लादः हृद् भवति । हृनः । हृन्नवान् । हृत्तिः ॥ ३ ॥ ऋत्-'लू'आदेः एषां तः नः अप्रः । ४ । ऋकारान्तात् 'लू' आदेश्व परेषां क्ति क्तक्तवतूनां तकारस्य 'नकार' आदेशो भवति । कीर्णिः । कीर्णः । कीर्णवान् । लूनिः । लूनः । लूनवान् । धूनिः । धूनः । धूनवान् । अप्रः इति किम् ? पूर्तिः । पूर्तः । पूर्तवान् । क्रादिअन्तर्गणः 'लू' आदिः ॥ ४ ॥ क्तयोः 'सूयति' आदिआदितः । ५ । 'सूयति' आदेः औदितश्च परयोः क्तक्तवत्वोः तकारस्य नकारो भवति । सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् । 'दिव्य' आदिअन्तर्गणः 'सूयति' आदिः ॥ ५ ॥ र-दात् अमूच्र्छ- मदः दस्य च । ६ । रेफान्तात् दकारान्तात् च मूर्च्छ-मदवर्जात् परयोः क्त-क्तवत्वोः तकारस्य नकारो भवति, तद्योगे धातोः दकारस्य च । पूर्णः । पूर्णवान् । भिन्नः । भिन्नवान् । अमूर्च्छ- मदः इति किम् ? मूर्तः । मूर्तवान् । मत्तः । मत्तवान् । कृतस्य अपत्यम् कार्तिः इति 'असिद्धं बहिरङ्गम् अन्तरङ्गे' [ न्यायसंग्रहे न्या० २० पृ० २० ] इति न भवति ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy