SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । रेष्टा । रोष्टा । क्लेष्टा । लेष्टा । वेष्टा । स्प्रष्टा । म्रष्टा । द्रष्टा । दंष्टा । ॥ ४५ ॥ विष-शिषि- शुषि - कृषि - पिषि - विषि- तुषि-दुषि-द्विषेः । ४६ । एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । स्वष्टा । शेष्टा । शोष्टा । क्रष्टा । पेष्टा । वेष्टा । तोष्टा । दोष्टा । द्वेष्टा ॥ ४६ ॥ दहि-दिहि-दुहि-महि मुहि - रुहि-लहि-नहि-वहेः । ४७ । एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । २२४ ] दग्धा । देग्धा । दोग्धा । मेढा । मोग्धा । रोढा । लोढा । नद्रा । वोढा ॥ ४७ ॥ 1 स्विदि- मिदि-खिदि-श्लषि-पुषः श्ये । ४८ । एभ्यः श्यविकरणेभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । स्वेत्ता । मेत्ता । खेत्ता । लेष्टा । पोष्टा । श्ये इति किम् । स्वेदिता ॥ ४८ ॥ ऋवर्ण-श्रि-ऊर्णुत्रः किति । ४९ । ऋवर्णात् श्रेः ऊर्णुञश्च परस्य विहितस्य प्रत्ययस्य इट् न भवति । धृतम् । तीत्वां । श्रितः । ऊर्णुतः । एकस्वरात् इति वर्तते तेन इह न प्रतिषेधः-जागरितः । किति इति किम् ? वरिता ॥ ४९ ॥ उवर्णात् । ५० । उवर्णान्तात् विहितस्य कितः अशितः प्रत्ययस्य इट् न भवति । युतः । लूनः ॥ ५० ॥ ग्रह-गुहश्च सनः । ५१ । आभ्याम् उवर्णाच्च परस्य सनः इट् न भवति । जिघृक्षति । जुघुक्षति । रुरूषति । लुलूषति ॥ ५१ ॥ स्वार्थे । ५२ । स्वार्थे विहितस्य सनः इट् न भवति । जुगुप्सति ॥ ५२ ॥ स्वरात् अश्वि-नि-डीङ्-शी- रुक्षु-वृ-ऋत्-ऊत्-अतः । ५३ । १ " किति प्रत्यये विहिते " - अमोघ ४ । २ । १८९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy