SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २१८ ] आचार्यश्रीमलयगिरिविरचितं शम्दानुशासनम् । अस्मृषाताम् , अस्मरिषाताम् । स्मृषीष्ट, स्मरिषीष्ट । धातोः संयोगात् इति किम् ? निष्कृषीष्ट । आत्मने इति किम् ? अस्मार्षीत् ॥ ६ ॥ रधादि-औदित्-धूनः ।। रधादेः औदितः धूञश्च परस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् वा भवति । रद्धा, रधिता। दिवाद्यन्तर्गणो रधादिः । गोप्ता, गोपिता । धूञ्-धौता, धविता ॥७॥ अञ्जः असिचः । ८ । अञ्जः परस्य असिचः व्यञ्जनादेः अशितः प्रत्ययस्य इट वा भवति । अङ्क्ता, अञ्जिता । असिचः इति किम् ? आञ्जीत् ॥ ८ ॥ निष्कुषः।९। 'निस्'पूर्वात् कुषेः परस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् वा भवति । निष्कोष्टा, निष्कोषिता । 'निस्'ग्रहणम् किम् ? कोषिता ॥ ९ ॥ क्तयोः । १०। निष्कुषः परयोः क्त-क्तवत्वोः इट् भवति । निष्कुषितः । निष्कुषितवान् ॥ १० ॥ न डीय-श्वि-ऐदितः । ११। डीय-श्विभ्याम् ऐदितश्च परयोः क्त-क्तवत्वोः इट् न भवति । डीनः। डीनवान् । शूनः । शूनवान् । उद्विग्नः । उद्विग्नवान् । 'कृन्तति'आदेः विकल्पेट्त्वे अपि ऐदित्त्वं यलुगर्थस्-चरीकृत्तः । चरीकृत्तवान् । ‘डीय' इति निर्देशात् डयतेः न प्रतिषेधः-डयितः । डयितवान् ॥ ११ ॥ वेटः अपतेः । १२ । 'पति'वर्जात् विकल्पितेटः परयोः क्त-क्तवत्वोः इट् न भवति । रद्धः । रद्धवान् । अपतेः इति किम् ? पतितः । पतितवान् । 'एकस्वरात्' इति वर्तते-दरिद्रितः ॥ १२ ॥ . सम्-नि-वेः अर्दः । १३ । सम्-नि-विभ्यः परात् अर्देः परयोः क्त-क्तवत्वोः इट् न भवति । समर्णः । न्यर्णः । समर्णवान् । सम्-नि-वेः इति किम् ? अर्दितः ॥ १३ ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy