SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । योगः न धातुना इति अनुपसर्गत्वम् ।। ६९ ॥ शः नशः । ७० । अदुर्'उपसर्गात् अन्तरश्च परस्य शकारान्तस्य नशेः नकारस्य णः भवति । प्रणश्यति । अन्तर्णश्यति । शः इति किम् ? प्रनश्यति ॥ ७० ॥ नेःमा-दा-नद-गद-पत-पद-स्यति-याति-वाति-द्राति-प्साति-हन्ति-वपी -वही-शमू-चिञ्-देग्धौ । ७१। __ अदुर्'उपसर्गात् अन्तरश्च परस्य नेः नकारस्य 'मा'आदिषु धातुषु परेषु णकार आदेशो भवति । प्रणिमिमीते । प्रगिददाति । प्रणिधयति । प्रणिनदति । प्रणिगदति । प्रणिपतति । प्रणिपद्यते । प्रणिष्यति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिहन्ति । प्रणिवपति। प्रणिवहति । प्रणिशाम्यति । प्रगिचिनोति । प्रणिदेग्धि । 'तिप्'अनुबन्धनिर्देशात् यङः लुचि न भवति-प्रनिसासेति इत्यादि। 'दा'साहचर्यात् 'मा' इति मेङ्-माङोः ग्रहणम् तेन इह न भवति-प्रनिमाति ॥ ७१ ।। पाठे अ'ष'अन्त-'क'-'ख'आदौ शेषे वा । ७२ । 'मा'-दासंज्ञकादिभ्यः शेषे धातुपाठे अप'अन्ते अ'क'-'ख'आदौ परे अ'दुर्'उपसर्गात् अन्तरश्च परस्य नेः नकारस्य णः भवति वा । प्रनिपचति, प्रणिपचति । अन्तर्निभिनत्ति, अन्तर्णिभिनत्ति । अप'अन्तै-'क'-'ख'आदौ इति किम् ? प्रनिपिनष्टि । प्रनिकरोति । प्रनिखादः । पाठे इति किम् ? प्रनिपापचीति । इह तु न भवति-प्रेणिवेष्टा ॥ ७२ ॥ परेः अनितेः । ७३ । परेः परस्य अनितेः नकारस्य णः भवति वा । पर्यणिति, पर्यनिति । परेः इति किम् ? प्राणिति ॥ ७३ ॥ अन्ते च । ७४। अदुर' उपसर्गात् अन्तरश्च परस्य अनितेः नकारस्य अन्ते अनन्ते च णः भवति। प्राणिति। हे प्राण ।। ७४॥ १ अत्र प्रणिवेष्टा प्रनिवेष्टा इति रूपद्वयं भवत्येव धातोः शकारान्तस्वात् धातुश्च विशत् प्रवेशने । एवम् अन्यत्रापि-यथा-प्रणिदेष्टा प्रनिदेष्टा इत्यादि बोध्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy