SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ___श्व-वौ आश्रय-भक्ष्याय । ४५ । अपात् परस्य किरतेः सट् भवति शुनि वौ च यथाक्रमं आश्रयाय भक्ष्याय चेत् तदर्थः स्यात् । अपस्किरते श्वा-आश्रयाय विलिख्य प्रक्षिपति इत्यर्थः । अपस्किरते भक्ष्याय विः'। आश्रय-भक्ष्याय इति किम् ? अपकिरति पिण्डम् आशितः श्वा । 'विष्किरः शकुनिः' इति पृषोदरादिः ॥ ४५ ॥ गवि प्रात् तुम्पतेः । ४६ । प्रात् परस्य तुम्पतेः गवि कर्तरि सट् भवति ।। प्रस्तुम्पति गौः । गवि इति किम् ? प्रतुम्पति वनस्पतिः ॥ ४६॥ य-स्वरे प्रादुसः अस्तेः सः षिः। ४७ । प्रादुसः परस्य अस्तेः सकारस्य ये स्वरे च परे षिः भवति । प्रादुःषन्ति । प्रादुःष्यात् । य-स्वरे इति किम् ? प्रादुःस्तः ।। ४७ ॥ उपसर्गात् । ४८। उपसर्गात् परस्य अस्तेः सकारस्य ये स्वरे च परे षिः भवति । निःषन्ति । निःष्यात् । य-स्वरे इति किम् ? निःस्तः ॥ ४८ ॥ सु-सू-सो स्तु-स्तुभः अटि अपि अद्वित्वे । ४९ । एषाम् अद्वित्वे सति सकारस्य उपसर्गात् परस्य अटि अपि अन्तरे षिः भवति । परिषुणोति। परिषुवति । परिष्यति । परिष्टौति । परिष्टोभते । अटि अपि-पर्यषुणोत् । पर्यषुवत् इत्यादि । अद्वित्वे इति किम् ? अभिसुसूषति ॥ ४९॥ स्था-सेनि-सेध-सञ्ज-सिचाम् द्वित्वे अपि । ५० । एषाम् उपसर्गात् परेषां द्वित्वेऽपि अटि अपि सकारस्य षिः भवति । अधिष्ठास्यति । अभिषेणयति । प्रतिषेधयति । अनुषजति । अभिषिञ्चति । द्वित्वेऽपि, अटि अपि-अधितष्ठौ । अध्यष्ठात् । अभिषिषेणयिषति । अभ्यषेणयत् इत्यादि ॥ ५० ॥ स्तम्भेः अङ-प्रतिस्तब्ध-निस्तब्धे । ५१ । १ विः पक्षी-कुक्कुटादिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy