SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८४ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । यङि स्वप्-व्या-स्यमः । ५७। एषां यङि परे सस्वरस्य यत्रः संप्रसारणं भवति । सोषुप्यते । संवेवीयते । सेसिम्यते । 'अयञि' इति अनुवर्तते तेन संवेवीयते इत्यत्र वकारस्य न भवति ॥ ५७ ॥ चायः की। ५८। चायः यङि विषये कृतसंप्रसारणं 'की' इति निपात्यते । चेकीयते । चेकीतः ॥ ५८ ॥ न वशः। ५९। वशेः यङि संप्रसारणं न भवति । वावश्यते ॥ ५९॥ वयेः यः परोक्षायाम् । ६० । वयेः यः परोक्षायां परतः संप्रसारणं न भवति, वकारस्य तु सस्वरस्य भवत्येव । ऊयतुः । ऊयुः ॥ ६० ॥ .. वः। ६१। 'वेञ्' आदेशस्य 'वा' धातोः परोक्षायां परतः संप्रसारणं न भवति । ववौ । वः इति किम् ? उवाय ॥ ६१ ॥ अपिति वा । ६२ । वेज' आदेशस्य 'वा' धातोः अपिति परोक्षायां संप्रसारणं वा न भवति । ववतुः । ववुः । ऊवतुः । ऊवुः ॥ ६२ ।। . ज्यश्च यपि । ६३। 'ज्या' धातोः वेञश्च यपि परे संप्रसारणं न भवति । प्रज्याय । प्रवाय ॥ ६३ ॥ व्यः । ६४॥ व्येञः यपि परे संप्रसारणं न भवति । प्रन्याय । योगविभागः उत्तरार्थः ।। ६४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy