SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आख्याते धतुर्थः पादः (१८१ बभूव । बभूवे । विव्यथे । केचित् भवतेः भाव-कर्मणोः नेच्छन्ति-बुभूवे । अनुबुभूवे कम्बलः ॥ ३९॥ यत्रः सस्वरस्य अयत्रि आज्यम् अश्वेः संप्रसारणम् । ४० । 'ज्या 'धातुम् अभिव्याप्य वक्ष्यमाणस्य धातोः श्विवर्जस्य परोक्षायां द्वित्वे सति पूर्वस्य संबन्धिनः सस्वरस्य अयञ्-परस्य यत्रः संप्रसारणं भवति । - इयाज । उवाय । जिज्यौ । अयञि इति किम् ? विव्याध । वकारस्य न भवति । निषेधसामर्थ्यात् कृतेऽपि संप्रसारणे प्रतिषेधः । 'अश्वेः' इति प्रतिषेधाच्च व्यञ्जनस्य अनादेः लुचं बाधित्वा संप्रसारणम् । आज्यम् इति किम् ? सस्याम । अश्वेः इति किम् ? शिश्वयतुः । परोक्षायाम् इति किम् ? वावश्यते ॥ ४० ॥ 'यज्' आदि-स्वप-वचः किति । ४१। 'यज्' आदेः स्वप-वचेश्च किति प्रत्यये सस्वरस्य अयञ्परस्य यञः संप्रसारण भवति । ' इष्टः । इष्टवान् । उप्तः । सुप्तः । उक्तः । किति इति किम् ? यायज्यते । अयनि इति किम् ? वेवीयते । वकारस्य मा भूत् । भूवाद्यन्तर्गगो यजादिः ॥ ४१ ॥ .. वशि-व्यचि-व्यधि-ज्या-ग्रहि-नश्चि-प्रच्छि-भ्रस्जाम् कृिति । ४२। एषां किति ङिति च प्रत्यये परे सस्वरस्य अयञ्परस्य यत्रः संप्रसारणं भवति । उशितः । उशन्ति । विचितः । विचति । विद्धः । विध्यति । जीनः । जिनाति । गृहीतः । गृह्णाति । वृक्णः । वृश्चति । पृष्टः । पृच्छति । भृष्टः । भृजति । अयजि इति किम् ? विचति-वकारस्य मा भूत् ।। ४२ ॥ स्वापेः । ४३। स्वापेः ण्यन्त परे सस्वरस्य यञः संप्रसारणं भवति । असूषुपत् । स्वापात् घान्तात् णौ असुषपत् । डे इति किम् ? स्वाप्यते ॥ ४३ ॥ द्वयुक्तौ ६ः। ४४। द्वे उक्ती यस्मात् तस्मिन् द्वित्वनिमित्ते प्रत्यये विषयभृते. ह्ञः सस्वरस्यं यत्रः संप्रसारणं भवति । .. जुहाव । जुहूषति । परविज्ञाने 'जुहुवतुः' इत्यादौ परत्वात् आकारस्य लुचि यञः सस्वरत्वाभावात् संप्रसारणं न स्यात् इति विषयभावाश्रयणम् ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy