SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासन॑म् । तृ-त्रप-फल-भजाम् । ४२ । एषाम् अपिति परोक्षायाम् सेटि थे च अतः एकारो भवति, न च द्विः । तेरतुः, तेरिथ । त्रेपे । फेलतुः । फेलिथ । भेजतुः । भेजिथ ॥ ४२ ॥ न व आदेशादि - ददि -शसः । ४३ । वकारादेः आदेशादेः ददि-शसोश्च अपिति परोक्षायाम् सेटि थे च परे अतः एकारो न भवति । ववले | इयजिथ । दददे । विशशसुः । विशशसिथ || ४३ ॥ १७२ ] 'फण' आदि - - त्रस-भ्रम-वमः वा स्वरस्य । ४४ । 'फण्' आदेः 'ज' प्रभृतीनां च स्वरस्य अपिति परोक्षायाम् सेटि थे च परे एकारो वा भवति, न च द्विः । फेतुः, पफणतुः । स्येमतुः सस्यमतुः । जेरतुः, जजरतुः । त्रेसतुः, तत्रसतुः । भ्रमतुः बभ्रमतुः । वेमतुः, ववमतुः । फेणिथ, पफणिथ । फण स्थम स्वन राज भ्राज भास इति फण्आदिः ॥ ४४ ॥ श्रन्थ-ग्रन्थः नलुक् च । ४५ । अनयोः स्वरस्य अपिति परोक्षायाम् सेटि थे च परे एकारो भवति वा, योगे च नकारस्य लुक्, न च द्विः । शेथतुः शश्रन्थतुः । श्रथिथ, शश्रन्थि । ग्रेथतुः जग्रन्थतुः । ग्रेथिथ, जग्रन्थि ॥ ४५ ॥ दम्भः । ४६ । दम्भेः स्वरस्य अपिति परोक्षायाम् एकारो भवति, नकारस्य च लुक्, न च द्विः । देभतुः ॥ ४६ ॥ थे वा । ४७ । दम्भेः स्वरस्य परोक्षायां थे परे एकारो वा भवति, तद्योगे च नकारस्य लुक, न च द्विः । देभिथ, ददम्भिथ ॥ ४७ ॥ राधेः वधे । ४८ । राधेः 'वध'अर्थस्य अपिति परोक्षायाम् सेटि थे च परे स्वरस्य एकारो भवति, न च द्विः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy