SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आख्याते द्वितीयः पादः [ १५७ परा-उपात् । ३३ ।। आभ्यां परात् ‘वृत्ति 'आदिअर्थात् क्रमेः कर्तरि आत्मनेपदं भवति । पराक्रमते । अन्ये तु इह वृत्यादिअनुवृत्तिं न मन्यन्ते पूर्वत्र च 'अनुपसर्गात्' इति ॥ ३३ ॥ प्र-उपाभ्याम् आरम्भ-अङ्गीकारे । ३४ । आभ्यां परात् आरम्भे अङ्गीकारे च वर्तमानात् क्रमतेः कर्तरि आत्मनेपदं भवति । प्रक्रमते उपक्रमते भोक्तुम्-प्रारभते अङ्गीकरोति च इत्यर्थः । आरम्भ-अङ्गीकारे इति किम् ? प्रक्रामति-याति-इत्यर्थः ॥ ३४ ॥ वेः स्वार्थे । ३५ । स्वार्थः पादविक्षेपः । तदर्थात् क्रमेः कर्तरि आत्मनेपदं भवति । साधु विक्रमते अश्वः । स्वार्थे इति किम् ? साधु विक्रामति राजा-उत्सहते वा इत्यर्थः ।। ३५ ॥ ___ ज्योतिरुद्गतौ आङः । ३६ । आङः परात् ज्योतिरुद्गमे वर्तमानात् क्रमेः कर्तरि आत्मनेपदं भवति । आक्रमते चन्द्रः । उद्गतौ इति किम् ? " नभः समाक्रामति कृष्णवर्मना स्थितैकचक्रेण रथेन भास्करः" [ ] प्राप्नोति इत्यर्थः ।। ३६ ॥ नु-दाञ्-प्रच्छः । ३७ । एभ्यः आपूर्वेभ्यः कर्तरि आत्मनेपदं भवति । आनुते शगालः । धनम् आदत्ते । आपृच्छते गुरून् । आङः इति किम् ? नौति। प्रगौति । ददाति । पृच्छति ॥ ३७ ।। गमेःप्रतीक्षायाम् । ३८। गमेः ण्यन्तात् आयूर्वात् प्रतीक्षायां गम्यमानायाम् कर्तरि आत्मनेपदं भवति । आगमयते गुरून्-कंचित् कालं प्रतीक्षते इत्यर्थः । प्रतीक्षायाम् इति किम् ? आगमयति विद्याम् ।। ३८ ॥ हः स्पर्धे । ३९ । १ " नष्टवर्मना" इति ३।३ । ५२। सूत्रे हैमं पाठान्तरम् । २ समाकामति-प्राप्नोति इत्यर्थः । ३ किंचित् पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy