SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ देवेल ! " आख्याते द्वितीयः पादः समः तृतीयया । ११ । 6 सम् 'पूर्वात् चरेः तृतीयान्तेन युक्तात् कर्तरि आत्मनेपदं भवति । अश्वेन संचरते । तृतीयया इति किम् ? ] ॥ ११ ॥ [ 44 क्रीडः अकूजे । १२ । कूजः अव्यक्तशब्दनम् ततः अन्यत्र वर्तमानात् 'सम् 'पूर्वात् क्रीडतेः कर्तरि आत्मनेपदं भवति । संक्रीडते । अकूजे इति किम् ? संक्रीडन्ति शकटानि । समः इति किम् ? क्रीडन्ति ॥ १२ ॥ "" 'उभौ लोकौ संचरति इमं चामुं च परिवि अवात् क्रियः । १३ । एभ्यः परात् क्रीणातेः कर्तरि आत्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते | ' क्रियः' इति - अत एव निर्देशात् प्रकृतिवत् अनुकरणं भवति " [ न्यायसंग्रहे न्याय ६ प्र० ८ ] इति विज्ञायते । तेन 'मुनी इत्याह ' इत्यादि सिद्धम् । ' परा-वेः जे' [ सू० ९] इत्यादौ वर्णमात्रस्य अनुकरणम् न साभिधेयस्य ॥ १३ ॥ Jain Education International [ १५३ हृञः गतताच्छील्ये । १४ । गमनताच्छील्ये गम्यमाने हृञः कर्तरि आत्मनेपदं भवति । पैतृकम् अश्वा अनुहरन्ते - पितृवत् गमनम् एतेषां स्वभावतः इत्यर्थः ॥ १४॥ क्यषः वा । १५ । 6 क्य 'अन्तात् कर्तरि आत्मनेपदं वा भवति । १ इदं पद्यार्धम् सिद्धहेमबृहद्वृत्तौ ३।३।३२। सूत्रस्य उदाहरणे वर्तते, तत्र ' संचरसि ' इति पाठः । यद्यपि अत्र 'विद्यया' ' तपसा वा इति तृतीयान्तं गम्यते परं तु यत्र साक्षात् तृतीयान्तं तत्रैव इदं विधीयते अन्यथा कर्त्रा सह करणम् अवश्यमेव स्यात् ततः ' तृतीयया ' इति व्यर्था व्यावृत्तिः । २ अत्र सूत्रे ' क्रियः' इति पदम् स्यायन्तम् ' की 'धातोः घातुत्वेन नामसंज्ञाया अभावे कथं स्यादिविभक्तिसंभवः ? अत्र समाधानम् - प्रकृतिवत् अनुकरणम् । प्रकृतिसादृश्येन न धातुत्वम् किन्तु प्रकृत्यर्थसूचकत्वेन नामत्वम् तेन स्यादिविधानं सुसंगतम् । तेनैव न्यायेन अत्र मुनी' इति पदं द्विवचनान्त' मुनी 'पदस्य अनुकरणम्" इति न्यायेन द्विवचनत्वेन संधेरभावः । • अनुकरणम् ततश्च ' प्रकृतिवत् २० For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy