SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नाम्नि नवमः पादः [१४१ माधुरीभार्यः । माधुरीपाशा । तद्धितः इति किम् ? कुम्भकारभार्यः । स्वरग्रहणम् किम् ? वैयाकरणभार्यः । वृद्धिहेतुग्रहणम् किम् ? अर्धप्रस्थभार्यः । अरक्त-विकारे इति किम् ? काषायबृहतिकः । लौहेषः ।। ८३ ।। - वु-तद्वितकउपान्त्य-पूरण-आख्याः । ८४ । 'वु'प्रत्ययस्य तद्धितस्य च यः ककारः तदुपान्त्यः पूरणप्रत्ययान्तः संज्ञाशब्दश्च परतः स्त्रीलिङ्गः पुंवत् न भवति । ... कारिकाभायः । मद्रिकाभार्यः । पञ्चमीभार्यः । दत्ताभार्यः । तद्धितग्रहणं किम् ? जल्पाकभार्यः ।। ८४ ॥ 'प्रिय'आदौ । ८५ । * प्रिय 'आदौ उत्तरपदे परे परतः स्त्रीलिङ्गः पुंवत् न भवति । कल्याणीप्रियः । प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा सचिवा स्वा कान्ता समा चपला दुहिता वासना इति ‘प्रिय 'आदिः ॥ ८५ ॥ स्वाङ्गात् ङीः जातिश्च अमानिनि । ८६ । स्वाङ्गात् परः यः ङीः तदन्तः जातिवाची च परतः स्त्रीलिङ्गः पुवन्न भवति अमानिनि । दीर्घकेशीभार्यः । कटीपाशा । शूद्राभार्यः । ... “आकृतिग्रहणा जातिः अत्रिलिङ्गा च याऽन्विता । आजन्मनाशम् अर्थानाम् , सामान्यम् अपरे विदुः ॥" [ ] इह पूर्वार्धलक्षणे कुमारीभार्यः । किशोरीभार्यः । उत्तरार्धलक्षणे तु कुमारभार्यः । स्वाङ्गात् इति किम् ? पटुभार्यः । अमानिनि इति किम् ? दीर्घकेशमानिनी ॥ ८६ ॥ • पुंवत् कर्मधारये। ८७ । परतः स्त्रीलिङ्गः अनूङ् कर्मधारये स्त्र्येकार्थे उत्तरपदे परे पुंवत् भवति ।.. माथुरवृन्दारिका । कल्याणप्रिया । अनूङ् इति ? ब्रह्मबन्धूवृन्दारिका ॥ ८७ ।। रिति । ८८। परतः स्त्रीलिङ्गः अनूङ् रिति प्रत्यये परे पुंवत् भवति । पटुजातीया । कठदेशीया ।। ८८ ॥ . १ उत्तरार्धे लक्षणे पू०. पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy