SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नाम्नि अष्टमः पादः [ ११९ 'सत्'आदीनि नामानि एकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समस्यन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूजायाम् इति किम् ? सन् जीवः । पूजायां नियमार्थम् पूर्वनिपातव्यवस्थार्थं वचनम् ॥ ३८ ॥ वृन्दारक-नाग-कुञ्जरैः । ३९ । एतैः सह नाम एकार्थं समस्यते पूजायां गम्यमानायाम् । गौः वृन्दारकः इव गोवृन्दारकः । गोनागः । गोकुञ्जरः । पूजायाम् इति किम् ? चैत्रो नागः इव मूर्खः । व्याघ्रादेः आकृतिगगत्वात् सिद्वौ पूजार्थम् तद्गुणोक्त्यर्थं वचनम्। गोनागो बलवान् ॥ ३९ ॥ कृत्यतुल्याख्यम् अजात्या । ४० । कृत्यप्रत्ययान्तम् तुल्यपर्यायं च अजातिवाचिना नाम्ना सह समस्यते । भोज्योष्णम् । पानीयशीतम् । तुल्यार्थ-तुल्यश्वेतः । सदृशश्वेतः । अजात्या इति किम् ? भोज्यः ओदनः । 'शीतपानीयम्' इति 'पानीय'शब्दस्य जातिवाचिनः विशेषणसमासः । जात्या समासस्य अजातेः पूर्वत्वस्य च प्रतिषेधार्थ वचनम् । ४० । किंक्षेपे । ४१ । 'किम्'शब्दः नाम्ना सह समस्यते क्षेपे गम्यमाने । स किंराजा यो न रक्षति । अत्र तत्कार्याभावात् क्षेपः । क्षेपे इति किम् ? कः राजा पाटलिपुत्रे ? ॥ ४१ ॥ पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहत्-बष्कयिणी-प्रवक्तृ श्रोत्रिय-अध्यापक-धूर्त-प्रशंसारूढः जातिः। ४२ । 'पोटा'आदिभिः प्रशंसारूडैश्च जातिवाचि नाम एकार्थं समस्यते । इभ्यपोटा पुरुषवेषधारिणी स्त्री पोटा, गर्भे एव दास्यं गता वा । इभ्ययुवतिः । विषस्तोकम् । दधिकतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा । गोवेहत् । गोबष्कयिणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । प्रशंसारूढाः- गोमतल्लिका । गोप्रकाण्डम् । 'मतल्लिका'आदयः आविष्टलिङ्गाः । रूढग्रहणं किम् ? गौः रमणीया । जातिः इति किम् ? देवदत्ता पोटा । जातेर्विशेष्यस्य पूर्वनिपातनार्थं वचनम् ॥ ४२ ॥ चतुष्पाद् गर्भिण्या । ४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy