SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९४] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । फल्गुनी-प्रोष्ठपदस्य नक्षत्रे बहुवद वा । २६ । 'फल्गुनी शब्दस्य 'प्रोष्ठपद'शब्दस्य च द्वौ नक्षत्ररूपौ अर्थो वा बहुवद् भवतः । कदा पूर्वे फाल्गुन्यौं, कदा पूर्वाः फाल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रे इति किम् ? फल्गुनीषु जाते फाल्गुन्यौ माणविके । द्विवचननिर्देशः किम् ? एकस्मिन् ज्योतिषि मा भूत् । 'संपन्नी यवः संपन्ना यवाः' इति जाति-व्यक्तिविवक्षया सिद्धम् ॥ २६ ॥ तद्धितलुचि अगोणी-मूच्योः व्यङादेः लुक् । २७। तद्धितस्य लुचि परतः व्यङादेः श्लुक् भवति, गोणी-सूचीशब्दौ वैर्जित्वा । पञ्च इन्द्राण्यः देवताः अस्य पञ्चेन्द्रः । कुवल्या विकारः कुवलम् । 'हरीतकी फलम्' इत्यत्र लुगर्थस्य स्त्रीत्वात् पुनः ङी । अगोगी-सूच्योः इति किम् ? पञ्चभिः गोणीभिः क्रीतम् पञ्चगोणिः । दशसूचिः ॥ २७ ॥ गोण्याः ह्रस्वः मेये । २८ । 'गोणी'शब्दस्य उपचारात् मेये वर्तमानस्य हूस्वः भवति । गोणिः । मेय इति किम् ? गोणी ॥ २८ ॥ स्वरस्य क्लीबे । २९ । क्लीबे वर्तमानस्य स्वरान्तस्य हस्वः भवति । कीलालपम् । ग्रामणि कुलम् । 'काण्डीभूतं कुलम्' इत्यादौ अलिङ्गत्वात् न भवति ॥ २९ ॥ समासस्य अन्ते नीचः अनंशिसमास-ईयोबहुव्रीहे: कुन्यादेः। ३० । ___ समासस्य अन्ते वर्तमानस्य उपसर्जनभूतस्य अंशिसमासान्तवर्जितस्य ईयस्'अन्तंबहुव्रीह्यन्तवर्जितस्य च ङ्यादेः हस्चो भवति । निष्कौशाम्बिः । अतिखट्वः । समासस्य इति किम् ? कुमारीयतेः किप्-कुमारी पुमान् । अन्त इति किम् ? कुमारीप्रियः । नीचः इति किम् ? राजकुमारी। अनंशिसमास-ईयोबहुव्रीहेः इति किम् ? अर्धष्पिली। बहुश्रेयसी। बहुव्रीहिग्रहणं किम् ? निःश्रेयसिः ॥ ३० ॥ गोः। ३१ । १ शूची पू० पा० । २ वर्जयित्वा पू । ३ पिप्पली पू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy