SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नाम्नि चतुर्थः पादः [७१ अवृत्यन्ते इत्येव ? परमेमकस्मै । शकारः सर्वादेशार्थः । उत्तरेण अनकः विधिः इति स'अ'अर्थ वचनम् ॥ ६३ ॥ अनक् । ६४। योगविभागात् 'अन्वादेशः' 'अवृत्त्यन्ते' इति च निवृत्तम् । त्यदां संबन्धिनि व्यञ्जनादौ स्यादौ परे 'अक्'वर्जितस्य इदमः अश् आदेशो भवति । अ'मै । अस्मात् । अनक् इति किम् ? इमकाभ्याम् । त्यदां संबन्धिनि इति किम् ? प्रियेदंभ्याम् । इह तु भवति-परैमास्मै ॥ ६४ ॥ . टा-ओसि अनः । ६५ । __त्यदां संबन्धिनोः टा-ओसोः परयोः अक्वर्जितस्य इदमः स्थाने अन आदेशो भवति । __ अनेन, अनयोः । परमानेन, परमानयोः । त्यदां संबन्धिनोः इति किम् ? प्रियेदमा । अनक् इति किम् ? इमकेन ॥ ६५ ॥ दः म् स्यादौ । ६६ । त्यदां संबन्धिनि स्यादौ परे इदमः दकारस्य मकार आदेशो भवति । इमौ । इमे । त्यदां संबन्धिनि इति किम् ? प्रियेदमौ ॥ ६६ ॥ सौ मः। ६७। त्यदा संबन्धिनि सौ परे इदमः मकारस्य 'म्' आदेशों भवति । अयम् । परमायम् । 'अश्' बाधनार्थं वचनम् ।। ६७ ॥ ___ इदस्य अयः पुंसि । ६८। त्यदां संबन्धिनि सौ परे इदमः पुंसि वर्तमानस्य संबन्धिनः 'इद'रूपस्य अवयवस्य 'अय' इति आदेशो भवति । अयम् । परमायम् । अयकम् । त्यदां संबन्धिनि इति किम् ? प्रियेदम् ।।६८॥ स्त्रियाम् इयः । ६९। त्यदां संबन्धिनि सौ परे इदमः स्त्रियां वर्तमानस्य संबन्धिनः 'इद'रूपस्य अवयवस्य 'इय' इति आदेशो भवति । १ अनक इति पा०पू० । २ परस्मै पा०पू० । ३ अन इति पा०पू० । ४ "व्याने अशू" सूत्रम् अत्रैव पादे ६३ । इत्यनेन प्राप्तस्य अशः बाधनार्थम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy