________________
३६५
नि० ४४७]
गणधरवादे कर्म सिद्धिः । नुग्रहोपघातौ सुखस्य दुःखस्य तद्विपरीतविषयनिमित्तौ । तथा रागद्वेषभयशोकादीनामपि सम्भवतोऽभिधेयम् ॥२०९२।।
अधवा णेगंतोऽयं संसारी सहा अत्तो ति । जमणातिकम्मसंततिपरि[१३७-द्वि०]णामावण्णरूबो सो ॥२०९३॥
अधवा गाहा । अथवा नायमेकान्तः संसारी सर्वथैवाऽमूर्त इति । कुतः ? अनादि कर्मसन्तानोनिबन्धनत्वादात्मकर्म सामान्यपर्यायाच्च सुखदुःखादीनाम् । पर्यायिणश्च पर्यायाऽनन्यत्वविवक्षात इति ॥२०९३।।।
संताणोऽणातीओ परोप्परं हेतुहेउभावातो । देहेस्स य कम्मस्स य गोतम ! बीयंकुराणं व ॥२०९४॥
संताणो गाहा । आह-कथं पुनः कर्मणोऽनादिः सन्तान इति ? उच्यते-- देहकर्मणोरंन्योन्यहेतुहेतुमद्भावात् । इह ययोरन्योन्यहेतुहेतुमद्भावस्तयोरनादिः सन्तानो यथा बीजाङ्कुरयोरथवा पितापुत्रयोः ।।२०९४॥
कम्मे 'वाऽसति गोतम ! जमग्निहोत्तादि सग्गकामस्स । वेत विहितं विहण्णति दाणातिफलं च लोअम्मि ॥२०९५॥
कम्मे वा गाहा । कर्मण्यसति वा यद् "अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि क्रियानुष्टानं वेदविहितं तद्विघातः । लोके [च] दानादि क्रियाफलविशेषाणाम् । अनिष्टं चैतत् , क्रियाफलदर्शनात् क्रियादिवदित्युक्तम् ॥२०९५॥ कम्ममणिच्छंतो वा सुद्ध चिय जीवमीसराई वा । मण्णसि देहातीणं जं कत्तारं ण सो जुत्तो ॥२०९६।।
कम्म० गाहा । कर्म वाऽनिष्ठन् शुद्धमेवाकर्माणमात्मानमीश्वरमव्यक्ति(क्त)कालनियतियदृच्छादिकं कर्तारमभिप्रैपि शरीरादीनां यदि । असावपि न युक्तरूपः । ॥२०९६॥ कथम् ?
उपकरणाभावातो णिच्चेद्वाऽमुत्ततादितो वा वि । ईसरदेहारंभे वि तुल्लता वाऽणवत्था वा ॥२०९७।।
उव० गाहा । नायमकर्मा शरीरमारभते । निरुपकरणत्वात् । इह यो निरुपकरणो नासावारभते, यथा दण्डादिविकलकुलालः । यश्चारभते नासौ निरुपकरणो यथाऽसा
१ सव्वतो जे । २ अनन्नु त्ति त । ३ नो यदनि -इति प्रतौ ।, 'गाईट को हे। द्रष्टव्या गा' २१२० । '५ जीवस्म जे । ६ चा को हे । ७ ताई की। ८ मणास-इति प्रतौ । ९ रासि वा जे । राई त । १० नां यमवमा - इति प्रती ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org