________________
नि० ५६६ ]
द्विक्रियनिह्नवः । उपयुज्यमानश्च सर्वात्मनोपयुज्यत इति अंशाभावादंशेनाप्यर्थान्तरोपयोगासम्भव इति मत्वा ब्रवीति-केन वांशेनेति ।
समयादिश्च कालोऽतिसूक्ष्मत्वात् भिन्नोऽपि लक्षयितुमशक्यः, उत्पलदलव्यधनकालमेदवत्, अलातचक्रभ्रमणकालवत् ।
कदाचिच्चित्तं युगपद् सर्वाणीन्द्रियाणि प्राप्नुयादित्याशङ्का । तन्निवारणमपि -नेन्द्रियाणि समकं युगपत् समेति संप्राप्नोति; अथ च सूक्ष्मत्वात् कालस्य युगपत् प्राप्तिरिव लक्ष्यते, शुष्कशष्कुलीदशने रूप-रस-गन्ध-स्पर्श-शब्दोपलब्धिवत्।।
___ यदि च सर्वेन्द्रियेषु बहुना भिन्नेन कालेन सञ्चरतो मनसः कालभेददुर्लक्षता किमु नैकस्मिन् स्पर्शनेन्द्रियोपयोगे भिन्नार्थविषये स्तोकतरत्वात् कालस्य ! दुर्लक्ष्य एकेन्द्रियोपयोगकालभेदः, सूक्ष्मत्वात्, पञ्चेन्द्रियोपयोगकालभेदवत् ।
अपि च शोतवेदना विनियुक्तं मनस्तस्मिन्नेव काले उष्णवेदनोपयोगं न यास्यति, अर्थान्तरोपयुक्तत्वात् , अर्थान्तरोपयुक्तविचित्र(त्त)क पुरुष इव पुरा स्थितहस्त्युपयोगम् ।
अथ चैकस्मिन् काले एक.. मन्नर्थोपयोग(गे) प्रतिवस्तु असंख्येया अनन्ता उपयोगाः स्युः, अर्थान्तरातिक्रान्तिः(न्तः), एकक्रियोपयोगे द्वितीयक्रियावत् । किमर्थ नियमत एव द्वे किये वेद्येते ? क्रियासहस्राण्यपि तद्वद्वेद्यन्तामित्यर्थः ।
__ अत्राह परः--अनेकोपयोगताऽपीटैवेति सिद्धसाधनम् , यस्माद् बहु बहुविधादिभेदा अर्थावग्रहादयोऽनुज्ञाताः । आचार्य आह-एकस्मिन्नुपयोगेऽनेकोपयोगता साध्यत्वेन प्रतिज्ञाता, बहुविधादयस्त्वावग्रहास्तेष्वेककालमेक एवोपयोगो नानेकोपयोगता । ग्रहणमुपयोगः । अनेकस्मिन् ग्रहणमने कमणमिति समासः । ततश्च न सिद्धसाधनम् । शीतोष्णवेदनयोस्तु एकस्मिन् काले भिन्नमेवोपयोगद्वयम्, विरुद्धार्थत्वात् ॥२९११-२०॥
पुनश्चोदक एवाहसमयमणेगग्गहणं जति सीतोसिणदुगम्मि को दोसो ? । केण व भणितं दोसो उवयोगदुगे वियारोऽयं ॥२९२१॥ समयमणेगग्गहणं एगाणेगोवैओगभेतो को ?।। सामण्णमेगजोगो खंधावारोक्योगो व्व ॥२९२२।। खंधारोऽयं सामण्णमेत्तमेगोवयोगता :समयं । पतिवत्थुविभागो पुण जो [१९२-द्वि०]सोऽणेगोवयोगातो ॥२९२३॥
१ यस्ता यहास्त- इति प्रतौ । २ हणे को हे त । ३ °णेगाव जे । ४ धावारो' त । ५ 'वोग त्ति को हे, वोगो ति त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org