________________
नि० ५६६ ] उपोद्घाते सामुच्छेदिकदृष्टिनिहवः ।
अधव समाणुप्पत्ती समाणसंताण[१८९-द्वि०]तो मती होज्जा । को सव्वधा विणासे' संताणो किं व सामण्णं ॥२८७९।।
अधय गाहा । सेनानग(सेनावन)सन्ततिवासनातः समानरूपोत्पत्तिरिति सादृश्यभ्रान्त्या स एवेति व्यपदेशः । तत् तु अत एवायुक्तम् । सर्वथा विनाशे निरवये कः सन्तानः, कि वा सामान्यम् ? ॥२८७९।।
अपि चसंताणिणो ण भिण्णा जति संताणो ण णाम सन्ताणो । अध भिण्णो ण क्खणियो खणियो वा जति ण सन्ताणो ॥२८८०॥
संताणिणो गाहा । नासौ सन्तानः, सन्तानिभ्यः सकाशाद[न]न्यत्वात् , सन्तानिवत् । अथायं दोषो मा प्रापदिति भिन्नत्वमभ्युपगम्यते, ततः सन्तानोऽक्षणिकः प्राप्नोति, क्षणिकेभ्यः सन्तानिभ्योऽन्यत्वात् , आकाशवत् । ततश्च क्षणिकं सर्वमिति पूर्वाभ्युपगमविरोधः । अथैतस्यापि क्षणिकत्वमभ्युपगम्यते । ततोऽसौ सन्तानो न भवति, क्षणिकत्वात् , सन्तानिवत् ॥२८८०॥ पुव्वाणुगमे समता होज्ज ण सा सव्वधा विणासम्मि । अध सा ण सव्वणासो तेण समं वा गणु खपुप्फ ॥२८८१॥
पुन्वाणुगमे गाहा । यदि पूर्वमुत्तरत्रानुगच्छति, ततः समता सादृश्यं भवेत् । सर्वथा विनाशयुक्तं तदभ्युपगम्यतेऽनुगमाऽभावात्। पूर्व विज्ञानस्य च सविषयस्य नष्टत्वात् उत्तरक्षणवस्तु कस्य समानम्, कस्य वा समबुद्धिरुभयोनिरन्वयनष्टयोः । अथ सा समता अभ्युपगम्येत, न तर्हि सर्वथा नाशः, कस्यचिदंशस्यान्वयिनो नित्यस्याभ्युपगमात् । अथ सर्वथा विनाशेऽपि सभागसंततेः समताऽभिमन्यते । ततः खपुष्पमपि पूर्वेण समानमस्तु, निरन्वयात्, उत्तरक्षणवत् ॥२८८१।।
अपि चानिष्टप्रसङ्गःअण्ण विणा से अण्णं जति सरिसं होति होतु तेलोक्कं । तदसंबद्धं च मती सो – कतो सव्वणासम्मि ॥२८८२।।
अण्णविणासे गाहा । पूर्वस्मिन्निरन्वयेऽपि नष्टे त सदृशं सर्वं त्रैलोक्यमुत्पद्यताम्, निरन्वयत्वात् , तदुत्तरक्षणवस्तुबत् । न च त्रैलोक्यं तत्सदृशमुत्पद्यते, दृष्टेष्टविरोधात् ।
१ णासो त । २ तत्त्व एवायुवतं सं-इति प्रती। हुज्ज हे । ५ पुव्वणुभंग इति प्रतौ । ५ तेलुक्कं हे । : वि को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org