________________
५३८
विशेषावश्यकभाष्ये
[नि० ५६६
चोइस गाहा ॥२७८८-८९॥
नमालिहिज्वराभिभूतः ‘संस्तारकं कुरुत' इत्यादिश्य शिष्यान् वाक्समकमनिप्पन्नं दृष्ट्वा रुपितः सिद्धान्तवचनं "क्रियमाणं कृतम्" इत्येतद वितथम्, प्रत्यक्षविरुद्धत्वात् , अश्रावणशब्दवचनवत् । प्रत्यक्षविरुद्धत्वस्य पक्षधर्मवप्रतिपादनाय गाथा--
सक्खं चिय संथारो ण कन्जमाण। कतो त्ति मे जम्हा । वेति जमाली सव्वं ण कज्जमाणं कतं तम्हा ॥२७९०॥
सक्खं गाहा । संस्तारकोऽयं प्रत्यक्षं क्रियमाणश्च कम्बलग्रस्तरणच्यापारादेशात् न चास्मिन् समये कृतः । पुनरपि वस्तुप्रस्तरणसापेक्षत्वात क्रियमाण एव, न कृतः तस्मात् क्रियमाणस्य धर्मिणः क्रियमाणत्वमेव प्रत्यक्षमिदम् , न कृतत्वम् , अनिष्पन्न स्वात् । ततः क्रियमाणत्वेन प्रत्यक्षमिद्धेन कृतत्वं धर्मोऽपनीयत इति प्रत्यक्षविरुद्ध त्वम् । तस्मात् सर्वमेव वस्तु क्रियमाणं न कृतमेव, क्रियापरिसमाप्तौ नः कृतम् , नाऽऽरात ॥२७९०॥
जस्सेह कज्जमाणं कतं ति तेणेह विज्जमाणस्स । करणकिरिया पवण्णा तथा य बहुदोसपडिवत्ती ॥२७९१।।
जस्सेह गाहा । इह यस्य वादिनः क्रियमाणं कृतं तेन वादिना विद्यमानस्य वस्तुनः परिनिष्पन्नस्य करणाय क्रिया प्रपन्ना भवति । तथा च बहुदोपाभ्युपगमः कृतो भवति ॥२७९१॥
तं च दर्शयत्याचार्यः-- कतमिह ण कज्नमाणं सम्भावातो चिरंतण घडो व्य । अधवा कतं पि कीरति कीरतु णिच्चं ण य समत्ती ॥२७९२।।
कतमिह गाहा । स्वमते तं) तावज्जमालिदर्शयति-कृतं वस्तु न क्रियमाणमिति प्रतिज्ञा, विद्यमानत्वात् , चिरन्तनघटवत् । अयं कृतमपि क्रियमाणभ्युपगम्यते केनचित् ततः सर्वदा क्रियमाणावस्यैव भवतु, क्रियमाणत्वात् , प्रथमसमय कृतवत् । न च क्रियापरिसमाप्तिः, सर्वदा क्रियमाणत्वात् , आदिसम यवत् ॥२७९२।।
किरियावेफल्लं पिय पुव्यमभूतं व दीसते होन्तं । दीसति दीहो य जतो किरियाकालो घडातीणं ॥२७९३॥
१ 'त्यादेशावग-इति प्रतौ । २ कउ त्ति को हे । ३ ति हे. चि' त। १ च को हे । ५ होतं को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org