________________
नि० ५३६ ]
उपोद्घाते लक्षणद्वारम् ।
५०५
एवं नाशस्य भावत्वेऽपि सिद्धे नैव तन्नाशोपलक्षितं भावो भवति, किं तर्हि ? अभाव एव । इत्थं तत्परिणामस्वभावत्वाद् अन्यथा नाशपरिणामात्, अन्यथा उत्पादेन धौव्येण चोपलक्षितं तद् वस्तु अभावो भवतीत्येतदर्थप्रदर्शनी इयं गाथा - णासोवलक्खियं 'पि य तदभावो च्चिय तदण्णवाभावो । आह णणु पत्तमेवं भावाभावोभयसभावं || २६४०॥
णासो० ० गाहा । पूर्वार्द्ध भावितार्थमाचार्यस्य । उत्तरार्द्धमपि चोदकपक्षाश्रयम् । एवं तर्हि विलक्षणद्वयाद्भावाभावोभयस्वभावं वस्तु प्राप्तम् | अनिष्टं च विरुद्धधर्मद्वयानुभवनमेकस्यैकैकालमिति दोषः || २६४० ॥
तत आचार्य आह
एवं चि तं वत्युं सच्चाभावेव तं खपुष्कं व । भावे सवधा सव्वसंकरेगत्तणिच्चादि || २६४१ ॥
एवं चि तं वत्युं । एवमेव तद् वस्तुतां लभते यदि केनचित् पर्यायेण भवनावेशाद् भवति, केनचित् पर्यायेण नाशान्न भवति, ततः स्वरसत एव भावो [भावा]भावोभयस्वभावः ।
यस्य पुनरेकान्तेन नाशान्न भवत्येव सर्वथा, तस्य तद्वत्वेव न भवति, सर्वथा अभावात् खपुष्धवत् । यस्य चिकान्तेन सर्वथोत्पत्तेर्भवत्येव सर्वथा, तस्यापि तत् तत्त्ववदिति वस्तु न भवति, सर्वथैव भावात् सामान्यास्तित्ववत् । ततश्च सर्वसंकर- एकत्व- नित्यत्वादिदोषः । घटस्य पटाद्यात्मना पटादेर्घटात्मना निर्विशेषणास्तित्वपरिणामादिति संकरः, घटस्यैकस्य सर्वत्रैलोक्यरूपापत्तिरेकत्वम् । नित्यत्वं तेनैव रूपेण सर्वदावस्थानम् । तस्मादुभयत्राप्येकान्ते दोषदर्शनादनेकान्ताश्रयणाद् भावाभावरूपत्वं वस्तुनः सिद्धम् ।। २६४१ ।। नन्वेवं व्यवहाराभावः प्राप्य [तः ] - उत्पन्नमप्यनुत्पन्नम् विनष्टमप्यविनष्टम्, उभयस्वभावत्वात् किं कदा वक्तुं शक्यमिति उच्यते - अर्पितानर्पित सिद्धेरस्त्युपायः । अर्पितं विशेषितं स्वपर्यायैः । सामान्यरूपेण विशेषस्यानिराकृताऽनुपाकृ []त्वं सामान्यं द्रव्यमात्रम्, तथैव विशेषानर्पणात् । तदेव द्रव्यमुत्पन्नं विगतं वा तेन विशेषेणार्पितमुपनीतं उत्पन्नमिति वा विगतमिति वोच्यते, तत्पर्यायसमावेशात् तद् द्रव्यं सामान्यरूपमपहाय विशेपेणावस्थिते:, विवक्षितस्य सामान्यस्य तदा न (ना) सद्भाव:, नात्यन्ताभाव एवेति वस्तुस्वरूपं च व्यवहारसिद्विश्चेति । एतदर्थप्रदर्शनी गाथा ---
1
"
1
१ चित्र हे त २ स्यैव का इति प्रतौ । ३ व अभा को । ४ वित । ५ च्चाई को, च्चाई है त । ६ तद्वस्येव - इति प्रतौ । ७ वस्तुनः भ° इति प्रतौ । ८° मुपेत- इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org