________________
५०३
नि० ५३६ ]
उपोद्घाते लक्षणद्वारम् ।
परमाणुरेक संख्यः, द्व्यणुको द्विसंख्यः इति भिन्नसंख्यत्वाद् नानालक्षणम् । परमाणोः परमाण्वन्तरस्य च द्रव्यत्वैकसंख्याभ्यामविशेषात् परमाणुः परमाणुरिति च सर्वत्र परमाणुत्वपरिणामान्वयादेकजातित्वमिति नानात्वलक्षण ( णा ) भावः । यथा परमाणोर्दशितमेवं शेषाणामपि त्र्यणुक-संख्येयाऽसंख्येयाऽनन्तागुकानाम् असमानानां संख्यया नेतव्यम् । यथा च द्रव्यभेदानाम्, तथा क्षेत्र - काल-भावभेदानामपि एकप्रदेशिक - द्विप्रदेशादीनामेकसमय- द्विसमयादीनाम् एकगुण-द्विगुणेकृष्णत्वादीनामिति नानात्वलक्षणं गतम् ॥२६३३॥
इदानीं निमित्तलक्षणम्
लक्खिज्जते सुभासुभमणेण तो लक्खगं णिमि [ १७३ - द्वि०]नं पि । भोम्माति तदद्वविधं तिकालविसयं जिणाभिहितं ।। २६३४ ||
लक्खिज्जते गाहा । 'भौमादि तदष्टविधं' निमित्तम्- भौमम्, अन्तरीक्षम्, दिव्यम्, अङ्गम्, स्वरः, व्यञ्जनम्, स्वप्नः, उत्पात इति । एकैकमतीतानागत- वर्तमानकालविषयं सर्वज्ञैर्जिनैरभिहितत्वात् ॥ २६३४॥
निमित्तलक्षणानन्तरमुत्पादो लक्षणम्-
णाणुपपन्नं लक्खिज्जते जतो वत्थुलक्खणं तेणं ।
उप्पातो संभवतो व चेय विगच्छतो विगमो ॥ २६३५||
णाणुपपन्नं गाहा | यस्मात् नानुत्पन्नं वस्तु लक्ष्यते, तेनोत्पादोऽपि लक्षणम् । कस्य ! संभवतो-वस्तुनः उत्पद्यमानस्येत्यर्थः । तथैव च विगमोऽपि लक्षणम् । कस्य : विगच्छतः- वस्तुनः विनश्यतः इत्यर्थः || २६३५।।
'तथैव' इत्युपमानादुक्ताऽप्युपपत्तिः विगमस्य च प्रपञ्चेनोच्यतेलक्खिज्जति जं विगतं विगमेण विणा व जण संभूती । विगमोऽवि लक्खणमतो विगच्छतो वत्थुणोऽणणो ॥ २६३६ ||
1
लक्खिज्ज० ० गाहा । यथोत्पन्नं वस्तु उत्पादन लक्ष्यते तथा विगतमपि विगमेन लक्ष्यते । यो वाऽसावुत्पादो लक्षणमिष्यते सम्भूतिरुत्पादपर्यायः, सा सम्मूतिर्यस्मान्न विना विगमेन भवति, तस्माद्वस्तुलक्षणस्योत्पादस्याङ्गत्वाद् विगमोऽपि लक्षणम् बिगच्छतो वस्तुनोऽन्यत्वात् ॥ २६३६॥
१ कृष्टत्वा – प्रतौ । २ ज्जइ हे, ज्जई त । ३ ति को है । ४ लोमाद को है. भोमाइय भद्भु त । ५ चेव को हे त । ६ जंन को हे । ७ वस्तुनो नान्य इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org