________________
૪૮૬
विशेषावश्यकभाष्ये
[ नि० ५२२
समवाय इति तन्तुषु कारणद्रव्येषु कार्यद्रव्यं पटाख्यं समवैति । अस्यां च गाथायामेतदेव विपरीतमुपवर्ण्यते- 'समवायि कारणं तन्तवो पडे जेण ते समवयंति' तत् कथमेतदुत्सिद्धान्तमाचार्येणोच्यते इति । अत्र समाधिः- नैवाचार्येण परमतमुपजीव्य तेनो ( ० क्य उ)क्तमिति, नैगमनयस्य प्रत्याख्यानमेव । दुःश्लिष्टत्वात् । वस्तुस्वभावगत्याचार्येण व्याख्यानं क्रियते। न चान्यत्वमेव कार्यकारणानाम्, कारण नित्यत्वात्तदनन्य भाविकार्यनित्यस्वात् पेटाख्ये कार्यद्रव्ये तन्तवः समवयन्ति तन्तूनामौत्तराधर्येण पटदर्शनात् । तस्मात् सुष्टुच्यते 'पडे जेण ते समवयन्ति' । अत्रैवाऽसमवायिकारणं वेमादयः - 'ण समेति जतो कज्जे वेमाति ततो असमवाय' कार्यद्रव्येति वृत्तेः पटाख्ये । यथा तन्तवः समवायेनो (न) दृश्यन्ते न तथा वेमादय इति अतोऽसमवायिकारणमुच्यते ॥२५७८ ॥ एतदप्यसिद्धान्तमेवेति आचार्य एव पराभिप्रायं प्रकाशयन्नाह - वेमातयो णिमित्तं संजोगा असमवायि केसिंचि । ते जेण तंतुधम्मा पडो य दव्वंत [ १७० - प्र० ]रं जेण ॥ २५७९ ॥ माय गाहा । काणादानां हि सिद्धान्तः समवायिनः कार्यद्रव्यस्य कारणं तन्त इति समवायिकारणम्, तन्तुगुणाः 'तन्तुधर्माः' तन्तुसंयोगाः । कारणद्रव्यान्तरधर्मत्वात् परस्य कार्यव्यान्तरस्य दूरवर्त्तित्वात् असमवायिनः इत्यसमवायिकारणं तन्तुसंयोगाः - इत्येष परेषां सिद्धान्तः । वेमादयस्तु संयोगनिमित्तभूतत्वात् निमित्तकारणमुच्यन्ते । न पुनः समवाय कारणमिति, द्रव्यान्तरसमवायित्वापत्तेः || २५७९॥ उपपत्तिगाथा
दव्वंतरधम्मस्स य ण जतो दन्तेरम्मि समवायो । समवायमि वै पावति कारणकज्जेगता जम्हा ||२५८० ||
दव्वंतरधम्मस्स य गाहा । यान्तरधर्मस्य अप्सु शीतादेः तेजसि द्रव्यान्तरे समवायो नास्तीत्युपपत्तिप्रदर्शनमात्रम्, प्रमाणं तु-संयोगाः पटे न समवेष्यन्ति, द्रव्यान्तरधर्मत्वात्, शीतादय इव तेजसीति । अथाभ्युपगमात्तन्तुसंयोगाः पटेन समवायिन इष्येरन्। ततोऽयं गाथापश्चार्द्धेन दोष उच्यते - तन्तुपटादिकारणकार्य - योरेकत्वं भविष्यति, परस्परं गुणसमवायित्वात्, तन्तुस्वरूपवत्, पटस्वरूपवद्वा ॥ २५८०|| आर्हतानां तु स्यादन्याऽनन्यत्ववादिनां गुण एवायमन्यत्वं परेण प्रतिपन्न एव, तदनन्यत्वमप्रतिपन्नमिति तत्तदीयोपपत्तिभिरेव प्रतिपाद्यते
१ पयख्ये इति प्रतौ । २ई है । ३ तन्तु' हे । ४ 'व्वन्त' को । ५ य
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org