________________
४.८
विशेषावश्यकभाष्ये [नि० ५१६[पंचण्डं], पज्जाय० गाहा । कलनं कालः, पर्यायाणां कलनं परिमाणं पर्यायकालः, तस्य भेद एकांशः, कोऽसौ वर्णः ? रूपमित्यर्थः । वर्णश्चासौ कालश्चेति वर्ण कालः कृष्णरूपमित्यर्थः । ननु च लोकप्रसिद्धत्वात् कालो वर्ण एवेति गम्यते । तच्च न, यस्मादनियमेनाऽन्यत्रापि समयाद्यर्थे, मरणार्थे च कालशब्दो वर्तत इति तद्वयवच्छेदार्थ वर्णकालः ॥२५४५-४६॥
अथ भावकालनिरूपणार्थ भावा औदयिकादयस्त्रिपञ्चाशत् , तेषां कालो भाव. कालः । स च चतुर्दा ~~ साती सपज्जवसितो चतुभंगविभागभावणा 'एत्थं । ओदेइयादीयाणं तं जाणसु भावकालं तु ॥५१६॥२५४७॥
साती सपज्जवसितो इत्यादि । सादिसपर्यवसितादीनां चतुर्णा भङ्गानां विभागः । अनन्तरगाथायाः भावना च इत्थं वक्ष्यमाणा नारकादिभावादि ॥२५४७॥
साती संतोऽणंतो एवमणाती वि एस चतुभंगो । ओदइयादीयाणं हो २६८-०]ति जधाजोगमायोज्जो ॥२५४८॥
साती गाहा । सादि: सान्तश्चानन्तश्चेति भङ्गद्वयं लभ्यते । एवमनादिरपि सान्तश्चानन्तश्चेति भङ्गद्वयम् । एप चतुर्भङ्गका(कः), एष चौदयिकादीनां यथायोगमायोज्य इत्यादेशः ॥२५४८||
स चायम् ----
जो णारगातिभावो तब मिच्छत्तायो ये भव्वाणं । ते चेवाभवाणं ओदैयियो बितियवज्जोऽयं ॥२५४९॥
जो णारगातिभावो। औदयिकादिभावः गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाs. संयताऽसिद्धलेश्याश्चतुश्चतुस्त्रयेकैकैकैकषड्भेदा इत्येकविंशतिविधः । तत्र गतिर्नारकादिरौदयिकः सादिसपर्यवसानश्च । मिथ्यादर्शनादिर्भव्यानां अनादिः सपर्यवसानः, मिथ्यादर्शनादिरभव्यानामनादिरपर्यवसानः, एवमौदयिको द्वितीयभगवर्जस्त्रिभङ्गः । न हि कश्चिदौदयिकस्सादिरपर्यवसान इति ॥२५४९॥
तथा - सम्मत्तचरित्ताई साती संतो य ओवसमिओऽयं । दाणातिलद्धिपणयं चरणं पि य खाइयो होति ॥२५५०॥
१ इत्थं म। २ उदईआ म। ३ सादी पज्ज० इति प्रतौ । ५ जोग्गमाउज्जा को। माउज्जो हे, । माओज्जा त । ५ ताइओ को । ६ वि हे त । ७ उदईओ त। ८ उपसमीभो त। ९ भावो को हेत।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org