________________
४५६
विशेषावश्यकभाष्ये
[नि० ४८३कतकाति० गाहा । अनित्यं ज्ञानं सौख्यं च, कृतकवादित्वात् , घटादिवत् । अत्र कृतकत्वादित्वमपक्षधर्मः, ज्ञानस्य स्वाभाविकगुणत्वात् , ज्ञानप्रतिपक्षावरणाभावात् स्वयमेव ज्ञानप्रकाशोद्भूतः, अभ्रापगमे स्वयं ज्योत्स्नाऽऽविर्भावात्], कर्माभावाच्च स्वयं सौख्यस्वरूपाविर्भावात् । प्रमाणमपि-सिद्धस्य ज्ञान सौख्ये न प्रतिपक्षमलयोगिनी भविष्यतः, क्षीणप्रतिपक्षत्वात् , अत्यन्त शुद्ध कनकवत् ।। एवं तावत् सिद्धस्यावरणकारणाभावाद् बाधककारणाभावाच्च नित्ये ज्ञानसोख्ये-कृतकत्वादेश्चा. पक्षधर्मत्वात्-उक्त्वा तन्निराकरणे स्याद्वादप्रक्रियासमाश्रयात् सामर्थ्यवादं पुरस्कृ. त्याह-अनित्ये ज्ञानसुखे सिद्धस्येति सिद्ध[साध्यतामुपदर्शयन पश्चार्द्धमुपन्यस्यतिउप्पात द्वितिभंगस्स भावतो वा ण दोसोऽयं । सर्वस्यैव वस्तुनः आत्माकाशघटपटादेरुत्पादस्थितिभङ्गस्वभावत्वात् नित्यानित्यत्वे व्यपेक्षाप्रापिता(त)सांनिध्ये अविरुद्ध इति कृत्वा नैवायं दोषः धर्मविशेषविपरीतसाधनं विरुद्धत्वादिरनुमानविरुद्धादिश्चेति ॥२३६९॥
__ अथ वेदवादिनोऽभ्युपगमविरोधमुद्भावयन्नाहण ह वे ससरीरस्स प्पियप्पियावहतिरेवमादि चं जं । तदमोक्खे णासम्मि व सोक्खाभावम्मि व ण जुत्तं ॥२४७०॥ . ___ण ह वे ससरीरस्सेत्यादि । यदेतद् वेदवाक्यम् - "न ह वै शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [छान्दो०८. १२.१ इति । एतदभ्युपगच्छतः कथं मोक्षाभावप्रतिज्ञा, प्रदीपोपशान्ति सदृशे वा मोक्षे जीवनाशप्रतिज्ञा ? अथवा विद्यमानस्वरूपस्य सिद्धस्य सर्वात्मगुणहानिः नेः) सुखदुःखस्य [हानिरिति प्रतिज्ञायां कथमेतानि वेदपदानीति । एतेषां चार्थों व्याख्यास्यते । तस्मादभ्युपगमविरोध इति ॥२४७०॥
___ अथासौ पक्षे जीवनाशेऽभ्युपगमविरोधं परिहरन्नाहणट्ठो असरीरो च्चिय मुहक्खाई पियप्पियाइं च । 'ताई ण फुसंति णडं फुडमसरीरं ति को दोसो ॥२४७१॥ ___णट्ठो असरीरो च्चिय इत्यादि । यस्मादशरीरं प्रियाप्रिये न स्पृशत इति नष्टपक्षे अभावादशरीर एवासौ तमभार्वभूतं प्रियाप्रिये न स्पृशत इति सिद्धमेव वेदवाक्यम् । कोऽत्र दोष इति ? ॥२४७१॥
१ त्वादिवत्-इति प्रतो । २ उक्ता यन्नि इति प्रतौ । ३ न ह वइ को हे। न ह वै त । १ व को हे। य त । ५ मोक्खा त । ६ ताइ जे । ७ स्मृत-इति प्रतौ । ८ भागभू इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org