________________
नि० ४८३ ]
गणधरवादे निर्वाणसिद्धि: ।
४५३
सर्वावभासको निःशेषापगतावरणत्वात् अपनीतगृहकुड्यपुरुषवत्, विगतावरणप्रदीपवत् । एवं हि ज्ञानप्रकाशात्मकत्वं सिद्धस्याख्यातम् ॥ २४५५-५६॥
अथ सांसारिक सुख दुःखानुभवाभावादत्यन्तानाबाधलक्षण सुखस्वरूपता प्रकाशनीयेति
पुण्णा पुण्णकताई जं सुहदुक्खाई तेण तणीसे ।
तण्णासो तो मुत्तो णिस्सुहदुक्खो जधागासं ॥२४५७||
पुण्णा पुण्णकता | निःसुखदुःखः सिद्धात्मा, सुखदुःखकारणपुण्यापुण्यात्मककर्मवियुक्तत्वात् ।।२४५७॥
raat freerat णभं व 'देहिंदियादि भावातो । [१६२ - प्र० ] आहारो देहो च्चिय जं सुहदुक्खोवलीणं ॥ २४५८ ||
अथवा गाहा । अथवा यथा प्रमाणम् - निःसुखदुःखः सिद्धात्मा, देहेन्द्रियरहितत्वात्, आकाशवत् । सुखदुःखोपलब्धीनां देहेन्द्रियाण्याधारः । तस्याधारस्याभावे सुखदुःखयोराधेययोरप्यभाव इति || २४५८ ||
पुण्णफलं दुक्खं चिय कम्मोतयतो फलं व पावस्स ।
णु पावफले वि समं पच्चक्ख विरोधिता चैवें ॥२४५९॥
पुण्ण० गाहा । यदेव तत् पुण्यफलं सुखत्वाभिमतं दुःखमेवेति प्रतिपत्तव्यम्, कर्मोदयत्वात् । ननु चैवं विपर्ययसाधनमपि शक्यं वक्तुं पापफलं दुःखत्वाभिमतं सुखमेवेति प्रतिपत्तव्यम् कर्मोदयत्वात् पुण्यफलवत् । अत्र प्रत्यक्षविरोधः स्वसंवेद्यः, दुःखानुभवस्य सुखत्वेना संवेद्यत्वात् ॥ २४५९ ॥
"
जत्तो च्चिय पच्चखं सोम्म ! सुहं णत्थि दुक्खमेवेतं । पडिकारविभत्तं तो पुण्णफलं पिं दुक्खं ति || २४६०॥
जत्तो च्चिय पच्चक्खं गाहा । यत एव प्रत्यक्षं सुखं नास्ति, अत एव सौम्य कौण्डिन्य ! सर्व दुःखमेवेदं संसारचक्रमस्माभिः प्रपञ्च्यते । किन्तु दुःखप्रतीकाररूपत्वात् पुण्यफलं दुःखमेव सत् सुखमिति व्यपदिश्यते, गण्डच्छेदन | दिचिकित्सावत् ॥२४६० ॥
अतश्च
विसयहं दुक्खं चि दुक्खप्पडिगारतो तिमिच्छे न । तं सुमुयारातो योवयारो विणा तैच्चं ॥ २४६१॥
१ तन्नासे को हे । २ ण्णासाओ मु को हे त । ३ दुक्खं त । ४ देहेन्दि को देहेंदि हे । ५ 'यादामा को हे त । ६ खाः इति प्रतौ । चेव को हे । ८ ति हे त । ९ 'डियर' को हे । १० 'गिच्छि त । ११ न य उव को न उ' हे । १२ तित्थं त ।
७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org