________________
४४० विशेषावश्यकभाष्ये
[नि० ४७९सरणं नास्तीति तदवस्थमेव परलोकनास्तित्वमिति । यथाऽरणितः समुत्पन्नस्यानलस्यारणितश्च भिन्नस्य विनाशधर्मणः स्वरूपाभावे न कचिद् गमनमेवं चैतन्यस्यापीति ||२४०८॥
___ अथैत दोपपरिहारेण बहूनि विज्ञानात्मकानि चैतन्यान्यपास्यैक एव तदाश्रयः कश्चिद्धर्मी सर्वगतो निष्क्रियोऽभ्युपगम्येत
अह एगो सव्वगो णिकिरिओ तह वि णत्थि परलोगो। संसरणाभावाओ वोमस्स व सबपिण्डेसु ।।२४०९॥
अइ गाहा । एवमपि नास्ति परलोकः, संसर्तुरभावात् । न संसरत्यात्मा नित्यत्वात्. निष्क्रियत्वात् सर्वगतत्वाच्च, व्योमवत् ॥२४०९॥ इधलोगातो व परो सुरादिलोगो ण सो वि पच्चक्खो । एव पि ण परलोगो मुवति य मुतीमु तो संका ॥२४१०॥
इधलो० गाहा । इहलोकात् परलोकः सुर-नारकादिलोकः । सोऽपि नास्ति अप्रत्यक्षत्वात् , खरविघाणवत् । श्रुति-स्मृति-लोकप्रवादेषु च श्रूयते परलोकः, तस्मादाश. का परलोकं प्रति भवत इति एवं भगवता हृदयस्थस्तस्य संशयः प्रकटीकृतः ॥२४१०॥
तदपनोदार्थमाह'भूतिन्दियातिरित्तस्स चेतणा सो य दव्यतो णिच्चो । जातिस्सरणातीहि पडि वज्जमु वायुभूति व्व ।।२४११॥
भूतिन्दियातिरित्तस्स चेतणा । भूतेन्द्रियातिरिक्तस्य कस्यापि चेतना धर्मः, भूतेन्द्रियेषु कदाचिद् भावात् , सुखदुःखवत् । यस्यासौ चेतनाधर्मः स दव्यार्थतो नित्यः पर्यायार्थतश्चानित्यः सक्रियश्च । ततः संसरति । जातिस्मरणादिभ्यश्च विहितोपपत्तिभ्यः प्रतिपद्यस्व वायुभूतिवत् तृतीयगणधरवक्तव्यतानिर्देशमाह लाघवार्थम्, ता एवोपपत्तय इहापि योज्या इति ॥२४११।।
ण य एगो सव्वगतो णिक्किरियो लक्खणातिभेतातो । कुंभा[१५९-०]तओ व्व बहवो पडिवज्ज तमिन्दभूति व्य ॥२४१२॥
___ण य एगो इत्यादि । न चैक आत्मा सर्वगतो निष्क्रियश्च । किं । तर्हि ? बहवः आत्मानः, भिन्नलक्षणादित्वात्, कुम्भादिवत् । इन्द्रभूतिवदिति प्रथमगणधरवक्तव्यतातिदेशोऽत्र द्रष्टव्य इति ॥२४१२।।
_पिंड को हे। २ धपरलो त । ३ पुरो त । ४ परो लो को। ५ भूइंदि° को हे । ६ यंता चा• इति प्रतौ । ७ दउ को हे । ८ मिंद को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org