________________
विशेषावश्यकभाष्ये
(नि० ४७५एत्तो च्चिय त मुत्तं मुत्तवलाधाणतो [१५७-६०] नधा कुंभो । देहातिकज्जमुत्तातितो ये भणिते पुणो भणति ॥२३८२॥ ___ एत्तो च्चिय इत्यादि । अत एव च तत् कर्म मूर्तम् , मूर्तस्याऽन्नादेर्बलाधा. नकारित्वात् । अथवा मूर्त कर्म, मूर्तस्य देहादेः कारणत्वात् । यन्मूः तद् मूर्तस्य कारणं दृष्टं यथा कुम्भस्य मृत् । एवमुक्ते पुनरपि ब्रवीति ॥२३८२॥
तो कि देहादीणं मुत्तत्तणतो तयं हरतु मुत्तं । अध सुहदक्खातीणं कारणभावादरूवं ति ।।२३८३॥
तो कि देहादीणं इत्यादि । इहोभयमुपालवते देहादिमूर्तकारणत्वात् मूर्तत्वं कर्मणः, सुखदुःखाद्यमूर्त्तकारणत्वाच्चामूर्त्तत्वमिति किमत्र युज्यते ? सुतरां न चोभयमेकस्यैकदा एकपर्यायेण परस्परविरुद्ध प्रतिपत्तुं शक्यम् ॥२३ ८३।। तस्मादेवं प्रविभज्यते
ण मुहातीणं हेतू कम्मं चिय किंतु ताण जीवो वि । होति समायिकारणमितरं कम्मं ति को दोसो ? ॥२३८४॥
__ण सुहा० गाहा । इह कार्यस्य त्रिविधं कारणम्-निवर्तकं निमित्तं पारिणामिकं चेति । तत्र सुखादीनां परिणामकारणममूर्तमेव जीवः, समवायिकारणमिति यत्परैरुच्यते । इतर दिति निवर्तककारणं कर्म । तच्च मूर्तम् । अन्नादि निमित्तकारणमेव, मुर्त च । ततः को दोपः-अमूर्तस्य अमृत, मूर्त च कारणमिति ? ॥२३८४॥
इय रूवित्ते सुहृदुक्खकारणत्ते य कम्मणो सिद्धे । पुण्णावकरिसमेत्तेण दुक्खबहुलत्तणमजुत्तं ॥२३८५।।
इय रूवित्ते मुह दक्खकारणत्ते य इत्यादि । एवं रूपित्वे सुखदुःस्वकारणत्वे च कर्मणः सिद्धे तदिदानी कर्मसामान्यं-पुण्यमेव, पापमेव, परस्परानुवेधसाधारणरूपं वा, भिन्नं वा द्वयमपि पुण्यं पापं च जात्यन्तरवत्-विचारणीयमिति । पुण्यमात्रवादिनो दोषः -यस्य पुण्यमेवात्यन्ताशुभफलं प्रतिपक्षो नास्तीति पुण्यापकर्षमात्रेणैव दुःखबहुलत्वमयुक्तम् , तत्कारणस्य पापपदार्थस्याभावात् ॥२३८५।। उच्यते कार्यात् कारणानुमानम् ----
कम्मप्पकरिसजणितं तदवस्सं पगरिसाणुभूतीतो । सोक्खप्पगरिसभूती जध पुण्णप्पगरिसप्पभवा ॥२३८६।।
१ • व्व को हे त। २ हवइ को हे त । : किन्तु हे । १ वायका त । ५ कम्मुणो को हे । कम्मुणा त । ६ वगरि को हे । ७ पगरिसं को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org