________________
विशेषावश्यकभाष्ये
[नि० ४७५
अथवा 'होज्ज व सभावतो चेअ भवसम्भूती' भवेद् वा स्वभावत एव भवस्य संसारस्य सम्भूतिरुत्पत्तिरिति स्वभाववादिसिद्धान्तः ।
४३०
अथ तस्मिन् सर्वपाश्चात्ये सिद्धान्तोद्घट्टके भण्यते प्रत्युत्तरं कर्मवादिना-न स्वभावात् संसारसम्भूतिः, उपपत्य सहिष्णुत्वात्, उन्मत्तवाक्यवत्, यतोऽभिमतस्तव ॥ २३६७॥
होज्ज सभावो वत्युं णिक्कारणता व वत्थुधम्मो वा । जति वत्थं णत्थि तओऽणुवलद्धीतो खपुष्कं व || २३६८।।
होज्ज सभावो वत्थुमित्यादि । स स्वभावः परिकल्स्यमानो वस्तु वा स्यात्, अवस्तु वा ? कर्मेश्वरपुरुषादीनि कारणानि संसारस्य । निष्कारणता स्वभाव उच्यते । अथवा कश्चिद् वस्तुधर्मः स्वभाव उच्यते । तद्यदि वस्तु स्वभावः, ततो वस्तूनि कर्मपुरुषप्रधानेश्वरादीनि परिगणितान्येव । तेषां मध्ये स्वभावो न भणितः । अतो नास्त्येवासौ स्वभावः अनुपलभ्यमानत्वात् खपुष्पवत् ||२३६८॥
अथ मन्येथाः- अनुपलम्यमाना अपि परमाण्वादयः सन्तीत्यनैकान्तिकः । कर्मनास्तित्वसाधनमप्येवमेवानैकान्तिकमिति कर्मनास्तित्वाभावादप्रतिषिद्धत्वाद्वा कर्मसद्भावः किमिति नाभ्युपगम्यते ? यो वानुपलब्धौ सत्यां स्वभावास्तित्वे हेतु:, स एव कर्मास्तित्वेऽपि भविष्यतीत्येवमर्थमियं गाथा -
अच्चतमणुवलद्धो वि अघ त अत्थि णत्थि किं कम्मं । हेतू व तदत्थित्ते जो णु कम्मस्स वि स एव ॥ २३६९॥ अच्चंत ० ० गाहा । गतार्था ||२३६९ ॥
अथवा यत्तत् कर्मति शुभाशुभफलमस्माभिरिष्यते तस्यैव कर्मणः स्वभाव इति त्वया नाम कल्प्यते भवतु । न कश्चिद्दोषः । किन्तु सर्वं चेतनाचेतनरूपं जगत् स्वभावकर्तृकमिति विरुध्यते, एकरूपत्वात् स्वभावस्य । जगद्धि पृथिवीसमुद्रगिरिसरिविमानप्रस्तारादिकं स्वभाव जनितं न भवति, प्रतिनियताकारत्वात्, कुम्भकारकर्तृ[क]घटवत् । कर्म तु विचित्रं विचित्रस्यैव जगतः कारणमिति प्रयुज्यते । तत 1 इयं गाथा -
कम्मस्स वाभिघाणं होज्ज सभावो त्ति होतु को दोसो । पतिणियताकारातो ण य सो कत्ता वडस्सेव || २३७० ॥ १णतो व जे । २ ज व हे । ३ मणु त । तागारा को है ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org