________________
४२२
विशेषावश्यकभाष्ये
[नि० ४७१अथवा इन्द्रियातीतकेवलप्रत्यक्षस्यासिद्धत्वोद्भावनदुरभिप्रायज्ञापनाय काक्वा प्रश्नगाहा
अधवा जमिन्दियाणं पञ्चक्खं किं तदेव पच्चक्खं ।। उवयारमेत्ततो तं पच्चक्खमणिन्दियं तच्चं ॥२३४७॥
अथ यदिन्द्रियाणां प्रत्यक्षं किं तदेवैकं प्रत्यक्षम्, अन्यदतीन्द्रियं प्रत्यक्षमेव न भवतीति दुरभिप्रायोऽयम् । नानेनासिद्ध तोद्भावयितुं शक्या । उपचारप्रत्यक्षं हीन्द्रियप्रत्यक्षमित्यस्यार्थस्य साधयिष्यमाणत्वात् । परमार्थप्रत्यक्षं त्वनिन्दियं तत्त्वं केवलज्ञानमेव, यत इन्द्रियाण्यनुपलम्भकानि मूतादित्वात् , आदि ग्रहणादचेतनत्वात्, कुम्भवत् । उपलम्भद्वाराणि तु जीवस्योपलव्धुर्गवाक्षवत् , गेहस्थपुरुषस्येति ॥२३४७॥
तत्प्रतिपादिनी गाथा-- मुत्तातिभावतो णोवल द्धि मन्तिन्दियाइ कुंभी व्य । उपभदाराणि तु ताई जीवो तदुवलद्धा ॥२३४८।।
मुत्ताति गाथा गतार्था ।।२३४८॥
अथवा अन्य प्रमाणम्-इन्द्रियेभ्यो भिन्नो ज्ञाता जीवः, तदुपरमेऽपि तद्द्वारोपलब्धार्थस्मतत्वात्, तद्व्यापारेऽपि चान्यमनस्कस्यानुपलम्भात् पञ्चगवाक्षद्वारोपलब्धि(धा) पुरुष इव गवाक्षेभ्यः । एतत्प्रतिपादनीयं गाथा---
तदुवरमे वि सरणतो तव्यावारे विणोवलंभातो । इन्दियभिण्णो णाता पंचगवक्खोवलद्धा वा ॥२३४९॥ तदुवरमे गाथा भावितार्था ।।२३४९॥
अथानिन्द्रियज्ञानप्रकाशनाय गाथाजो पुण"अणिन्दियो च्चिय जीवो सापिधाणविगमातो। सो सुबहुअं विजाणति अवणीतघरो जघा दट्ठा ॥२३५०॥
जो पुण गाहा । यः पुनरनिन्द्रिय एव क्षायोपशमिकभावेन्द्रियापर्गमात् क्षायिकभाववर्ती जीवः शुद्धः सर्वावरणप्रक्षयात् स सेन्द्रिय जीवात् सुबहु विजानाति यावत् ज्ञेयमित्यर्थः, विगतसर्वापिधानत्वात् । अपिधानमावरणमित्यर्थः । पञ्चगवाक्षगृहस्थ
१ मिदि' को हे। २ णिदि' को हे । ३ तत्थं हे । ४ याजमि-इति प्रतौ । ५ मंतिदियाई को हे । ६ कुम्भो को। ७ उ को। नोपलभ्यत हेप्रती । ८ अथ बाह्यत्प्र इति प्रतौ । १. लब्धत्वात्- इति प्रती। १० इंदि' को हे। १३ 'अणिदि' को । 'अणिदिउ हे। १२ सव्वपि' को हे। सव्वपित । १३ पुनरिन्द्र' इति प्रतौ । १४ गमा च इति प्रतौ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org